________________
श्रीजैन
कथाचतुष्टयी।
कथासंग्रहः
॥३०॥
मूर्खः समं सङ्ग, गावो गोभिमूंगा मृगैः । सुधीभिः सुधियो यान्ति, समशीले हि मित्रता ॥ ३५७ ॥ दत्तं तुष्टेन राज्ञाऽस्य, बहुग्रामयुतं पुरम् । सोऽपि दापितवान् सिंहस्वामिने जीवनं नृपात् ।। ३५८ ॥ ग्रामेशोऽपि कृतस्तेन, सिंहो देशाधिपो द्रुतम् । अन्यान्यप्यस्य कार्याणि, दुष्कराण्यपि सोऽकरोत् ॥ ३५९ ॥ लोभनन्देरपि स्वामी, तथा तेनानुकूलितः । यथा निःस्वोऽप्यसौ जज्ञे, महर्द्धिभरभासुरः ।। ३६०॥ अथ सिंहस्य पुत्रादप्यधिकोऽस्ति मयूरकः । उत्सङ्गलालितो नित्यं, पोषितो भूषितश्च यः ॥ ३६१ ॥ अभूत् तस्याऽऽमिषे तस्या, दास्या गर्भानुभावतः। दोहदस्तेन सोऽपूरि, तत्तुल्याऽन्यमयूरतः॥३६२ ।। ठक्कुरस्य मयूरस्तु, क्वापि यत्नादगोप्यत। एवं महोपकाराणि, तेन सर्वाणि चक्रिरे॥३६३ ॥ अथ भोजनवेलायां, ठक्कुरस्तं मयूरकम् अदृष्ट्वा मानुषान् प्रेष्य, वीक्षयामास सर्वतः॥३६४ ॥ यावन्न क्वापि लब्धोऽसौ, तावदाकुलितो भृशम् । स उच्चैः कारयामास, पटहाऽऽयोषणामिमाम् ॥ ३६५ ॥ मयूरं स्वामिसिंहस्य, यः कोऽपि कथयिष्यति । दीनाराष्टशतं लब्धा, सोऽभयं च न संशयः ।। ३६६ ॥ तच्छ्रुत्वा चिन्तितं दास्याऽनेन वैदेशिकेन किम् । गृह्णामि द्रविणं भर्ता, ममान्योऽपि भविष्यति ॥ ३६७ ॥ इति सा पटहं स्पृष्ट्वा, गत्वा सिंहान्तिकेऽवदत् । शृणु देव ! पुरो भर्तुः, कथनीयं यथातथम् ॥ ३६८ ॥ निशि मे दोहदो जज्ञे, मयूरामिषभक्षणे। प्रभाकरेण कुत्रापि, स तु ना सादितोऽपरः ॥ ३६९ ॥ वारयन्त्यामपि .
॥३०॥