________________
इत्युदासीनवृत्त्यैव,
श्रीजैन
वाक्ये तथाप्यमुम् ।
कथाचतुष्टयी।
कथासंग्रहः
च, नरो नैवावसीय
॥२९॥
. ॥३४॥ परदोषच्छिदोऽप्येके, स्वाङ्गजं दोषमक्षमाः। हर्तुमित्यत्र सूर्येन्दुमेघा एव निदर्शनम् ॥ ३४॥
इत्युदासीनवृत्त्यैव, जन्म निर्वाह्य स द्विजः । पर्यन्ते वत्सलत्वेनाऽऽकार्य पुत्रमभाषत ॥ ३४५ ॥ वत्स! यद्यपि ते नाऽऽस्था, मम वाक्ये तथाप्यमुम् । गृहाण श्लोकमेकं त्वं, समाधिमृत्यवे मम ॥ ३४६ ॥ कुतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभंच, नरो नैवावसीदति ॥३४७॥ओमित्युक्त्वा गतो यावद्, द्यूतस्थानं प्रभाकरः । मित्रेण तावदागत्य, पितृमृत्युर्निवेदितः ॥ ३४८ ॥ विपन्नो मे पिता तत्र, क्षोभोऽत्र तु समागतः । किं कर्त्तव्यं मया सोऽपि, ध्यात्वैवं मित्रमूचिवान् ॥ ३४९॥ सखे ! विधाय यत्कृत्यं, त्वमेव पितरं मम । आनयाऽनेन मार्गेण, यथा पश्यामि तं दृशा॥ ३५०॥ सख्या तथाकृते पश्चात्, पितृकृत्ये निवर्तिते । पित्राऽऽदिष्टं हृदि स्मृत्वा, शिक्षाश्लोकमभावयत् ॥ ३५१ ॥ पित्रा यदिदमादिष्टं, कुर्वतो मे तदन्यथा। किमु स्यादिति निणेतुं, परदेशं प्रतस्थिवान् ? ॥ ३५२ ॥ श्रुत्वा मार्गे वजन् सिंहाभिधानं ग्रामठक्कुरम् । कृतघ्नं तुच्छप्रकृति, स्तब्धं तुष्टस्तमाश्रयत् ॥ ३५३ ।। तस्यैका दासिका तेन, विहिता गृहिणी गृहे। अज्ञानभावतो रूक्षात्मिका सर्वाधमा च या॥ ३५४ ॥ तथा तत्रैव वास्तव्यो, निर्दाक्षिण्यशिरोमणिः । अर्थकलुब्धो मित्रत्वे, लोभनन्दिर्वणिक् कृतः ॥ ३५५ ॥ आकारितोऽन्यदा राज्ञा, सिंहस्तेन समं ययौ। प्रभाकरो नृपं विद्वप्रियं ज्ञात्वेदमूचिवान् ।। ३५६॥ मूर्खा
॥२९॥