________________
कथाचवुष्टयी।
श्रीजैन कथासंग्रहः
॥२८॥
शिक्षयते वसत, रमते कुरुते ककर्मकर्मठः। विप्रोग
एकमातृ-पितृत्वेऽपि, श्रूयते शुकयोर्द्वयोः । भिल्लानां च मुनीनां च, सङ्गाद् दोषगुणोदयः ॥ ३३१॥ सुसङ्गस्योपदेशोऽपि, लभ्यते न यथा तथा। इत्यथ लोकविख्याता, प्रभाकरकथोच्यते ॥ ३३२॥
अस्त्यत्र भरते वीरपुरेषट्कर्मकर्मठः । विप्रो दिवाकरोनाम, तस्य पुत्रः प्रभाकरः॥३३३॥ स धातुं धमति छूते, रमते कुरुते कलिम् । स्वैरं भ्रमति सर्वत्र, निरङ्कुश इव द्विपः ॥ ३३४ ॥ पिता शिक्षयते वत्स! किमात्मा व्यसनेऽस्यते ?। आत्माऽपि यदि नात्मीयस्ततः कोऽन्यो भविष्यति ?॥३३५ ॥ अवगाहस्व शास्त्राणि, पिब काव्यरसामृतम् । शिक्षयस्व कला धर्म, कुरूद्धर निजं कुलम् ॥ ३३६ ॥ यत:-वस्तूद्योतयते दीपः, प्रत्यक्षं निजतेजसा । निष्कलङ्कः पुनः पुत्रः, परोक्षानपि पूर्वजान् ॥ ३३७ ॥ किञ्च-धनाशा धातुवादेन, जीविताशा रसायनैः । गृहाशा पण्यनारीभिर्मतिभ्रंशत्रयं नृणाम् ॥ ३३८ ॥ इत्यादिशिक्षया स्पृष्टो, मालिन्यादिव मानसे। हसित्वामह सुतस्तात! कः पठित्वा दिवं गतः? ॥३३९॥ न शास्त्रेण क्षुधा याति, न च काव्यरसेन तृट् । एकमेवार्जनीयं तु, द्रविणं निष्फलाः कलाः ॥ ३४०॥ एवमुल्लण्ठनैस्तस्य, विलक्षोऽसौ व्यचिन्तयत् । पुत्ररूपेण मे जज्ञे, किमिदं कुलवैशसम् ॥ ३४१ ॥ अकिञ्चनकरोऽपि स्याद् नाऽकुलीनः कुलोद्भवः । भस्माऽपि पावकोद्भूतं, पावित्र्यं कुरुते जने ॥३४॥ अयं तु मत्सुतो भूत्वा, बभूव यदि निर्गुणः । ततः कथं कुशीलोऽभूत्, कर्मणः कोऽथवा बली?
रसायनैः
सुत विर्णन
॥२८॥