________________
श्रीजैन कथासंग्रहः
॥२७॥
कुलादपि वरं शीलं वरं दारिद्यमामयात् । राज्यादपि वरं विद्या, तपसोऽपि वरं क्षमा ॥ ३२० ॥ यस्य तस्य प्रसूतोऽत्र, गुणवान् पूज्यते नरः । सुवंशोऽपि धनुर्दण्डो, निर्गुणः किं करिष्यति ? ।। ३२१ ॥ किच-रूपलक्ष्मीवतां शीलमनुत्सेकः कलावताम् । प्रभविष्णोः सहिष्णुत्वमुष्णकाले हिमागमः ॥ ३२२ ॥ इत्यादि स्वस्य वृत्तान्तं, श्लाघ्यं च नृपतेर्मुखात् । स श्रुत्वाऽधोमुखस्तस्थौ, लज्जया भारितो भृशम् ॥३२३ ॥ इत्येवं सद्विवेकेन, ध्वस्तदोषः सतां मतः । क्रमात् सद्धर्मम्मासाद्य, सुमतिः सुगतिं ययौ ॥ ३२४ ॥ तृतीया सुसंसर्गोपरि प्रभाकरकथा ।
सुसंसर्गस्य माहात्म्यमद्वैतं कथ्यतेऽधुना । प्रायो जगति येन स्यादपि दैवकमन्यथा ॥ आस्तामौपाधिको दोष:, सहजोऽपि सुसङ्गतः । अपयाति यथा कर्म, जीवस्य ज्ञानसङ्गमात् ॥ पश्य सत्सङ्गमाहात्म्यं, स्पर्शपाषाणयोगतः । लोहं स्वर्णीभवेत्स्वर्णयोगात्काचो मणीयते ॥ विकाराय भवत्येव, कुलजोऽपि कुसङ्गतः । जलजातोऽपि दाहाय, शङ्खो वह्निनिषेवणात् ॥ आस्तां सचेतसां सङ्गात्, सदसत्स्यात्तरोरपि । अशोकः शोकनाशाय, कलये तु कलिद्रुमः ॥ निःस्वोऽपि सङ्गतः साधुर्वरमृद्धोऽपि नाधमः । अश्वः कृशोऽपि शोभायै, पुष्टोऽपि न पुनः खरः
॥
३२५ ॥
३२६ ॥
३२७ ॥
३२८ ॥
३२९ ॥
३३० ॥
कथाचतुष्टयी ।
112011