________________
श्रीजैन कथासंग्रहः
॥२६॥
नरकोss शिरच्छिदा । अयशश्च यथाऽहल्यासङ्गिनः स्वः पतेरपि ॥ ३०८ ॥ स महात्मा महाविद्वान्, यः सदा दूरतश्चरेत्। एताभ्यः कुटिलाङ्गीभ्यो, भुजङ्गीभ्य इव सन् ॥ ३०९ ॥ दाक्षिण्यमपि नैतासु, श्रेयसे तदतः परम् । परनारीसहोदर्य, पालनीयं महाव्रतम् ।। ३१० ॥ कदाऽपि द्यूतकाराणां स्थानेऽगाद् द्यूतकौतुकी । तत्र केनापि नालापि, प्रत्युतोत्त्रासितः स तैः ॥ ३११ ॥ किं च दुर्वचनं क्षोभं, कलिं क्रौर्य कुदृश्यताम् । अङ्गच्छेदादिकं तेषां वीक्ष्य बाढं व्यरज्यत ॥ ३१२ ॥ दध्यौ च यदहो ! द्यूतं, व्यसनानां धुरीक्ष्यते । तत्त्याज्यमीदृशं यस्य, प्रत्यक्षं दृश्यते फलम् ।। ३१३ ।। यद्वा किमुच्यतेऽमीषां द्यूतेनेह नलादयः । अवस्थां प्रापितास्तान्तामत्र' स्थित्वाऽप्यलं ततः ।। ३१४ ।। इत्थं विवेकसाहाय्यात्तथाऽसौ सद्गुणोऽजनि । यथा धुरि सुशीलानां दृष्टान्ते कथ्यते जनैः ।। ३१५ ।। सोऽन्यदा नृपमप्राक्षीद्विश्वासो देव ! नोच्यते । नृपधर्मे कथं तत्ते, विश्वासोऽयं मयीदृश: ? ।। ३१६ ।। नृपः प्रोवाच वत्स ! त्वमस्मद्वंशपुरोधसः । वरलब्धस्ततः कस्माद्विश्वासस्त्वयि नो भवेत् ? ॥ ३१७ ॥ नाथ ! तत्किं धृतो बाल्ये, गुप्तोऽस्मीति तदीरिते । नृपः प्राह विवेकस्योद्भेदं त्वयि प्रतीक्षितुम् ॥ ३१८ ॥ सदोषा अपि निर्दोषाः, कुलीना दुष्कुला अपि । विवेकेनात्र जायन्ते, दृश्यते स त्वयि स्फुटः ॥ ३९९ ॥ उक्तं च१ तान्ताम् - खेददायिनीम् ।
कथाचतुष्टयी ।
॥२६॥