________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥२५॥
कुर्युर्यथा नटाः ।। २९४ ॥ पुण्यपापमयं कर्म, तद्वशेन नृणां भवेत् । विवेकश्चाऽविवेकश्श, ताभ्यां सर्व शुभाशुभम् ॥ २९५ ॥ हिंसा-ऽलीक-परद्रव्य-नारी-द्रोहमयं तमः । प्रणश्यति विवेकार्कात् तदस्ते तु विजृम्भते ॥ २९६ ॥ श्रूयते भरतश्चक्री, विवेकेन पुरा क्षणात् । राज्यपङ्कनिमग्नोऽपि, प्राप पारं भवाम्बुधेः ॥२९७ ॥ अविवेकात्पुनर्मत्स्यस्तण्डुलोऽन्यतिमिष्वलम् । ग्रासाान्तमुहूर्तायुर्नरकं याति सप्तमम्।।२९८॥ इत्यादिगदितस्तस्य, लावण्यादिगुणेन च। तुष्टेन सुमतिराज्ञा, सर्वत्राऽस्खलितः कृतः॥२९९ ॥ अन्यदा देवताऽऽदिष्टदोषोदयवशादसौ । दृष्ट्वैकान्त भूपहारं, चलचित्तस्तमग्रहीत् ॥ ३०० ॥ सङ्गोप्य तं द्रुतं यावत्, सशङ्कस्तरलेक्षणः । प्रयातुमुद्यतस्तावद्विवेकेनाश्रितः क्षणात् ॥ ३०१॥ अचिन्तयच्च धिगहो! यन्मया करवर्तिनि । राज्ये सराजके विश्वनिन्दितं कर्म निर्ममे ॥ ३०२ ॥ अहो ! चौर्यसमं नान्यत्पृथिव्यामस्ति भीषणम् । येनाहं राजपूज्योऽपि, रकादपि लघू कृतः॥३०३॥ इति व्याहारकेणेव, विवेकेन निवर्तितः । हारं मुक्त्वा यथास्थाने, स्तेयवृत्तिमपाकृत ॥ ३०४ ॥ अथ लावण्यपुण्याङ्गो, राज्ञीभिः सस्पृहं सदा । वीक्ष्यमाणोऽन्यदा राज्यपल्या स्नेहेन भाषितः ॥ ३०५॥ सुमतिः कुमतीभूय, तत्र गन्तुं प्रवृत्तवान् । यावत्तावद्विवेकेन, बन्धुनेव निबोधितः ॥ ३०६ ॥ अह हा! मे महामोहो, भोगसौस्थ्योऽपि यद्विभोः । प्रेयस्यां मातृकल्पायां, सविकारं मनोऽजनि॥ ३०७ ॥ परस्त्रीसङ्गिनोऽमुत्र,
રા