________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥२३॥
• अध्यापयितुमारेभे, स्वयमेव पिता सुतम् ॥ २६८॥ तस्य भूमीगृहस्थस्योपरिद्रुफलकासनः । छात्राणां
च पुरो बाह्ये, शास्त्रमर्थापत्यसौ ॥ २६९ ॥ निजामृष्ठे दवरकं, बद्ध्वाऽर्पयति सूनवे । सन्देहे सति चाल्योऽयमिति सङ्केतपूर्वकम् ॥ २७० ॥ महाप्राज्ञः पुनः पुत्रो, भिनत्ति स्तोकतो बहुः । अन्यदा नीतिशास्त्रस्य श्लोक एकोऽयमागतः ।। २७१॥ दानं भोगस्तथा नाशः, स्याद् द्रव्यस्य गतित्रयम् । यो न दत्ते नभुङ्क्ते च, तृतीया तस्य गतिर्भवेत् ॥ २७२॥ तस्य व्याख्यानमाकर्ण्य, सूत्रं चालयते सुतः। पुनः स्पष्टमुपाध्यायो, व्याख्यानयति पूर्ववत् ॥ २७३ ॥ भूयोऽपि चालिते सूत्रे, पुरोधा रोषतोऽखिलान् । छात्रान् विसृज्य पुत्रं स्वमाकृष्य बहिरुक्तवान् ॥ २७४ ॥रे! समुद्रसमं शास्त्रं, तरित्वा गोष्पदोपमे। श्लोकेऽतिसुगमार्थेऽस्मिन्नित्थं मूढः कथं भवान् ? ॥२७५॥ सुतोऽप्याह नतस्तात ! भवतेह गतित्रयम्। वित्तस्य वर्णितं तच्च, विचारे मेन पूर्यते ॥ २७६ ॥ यतः-आयासशतलब्धस्य, प्राणेभ्योऽपि गरीयसः। गतिरेकैव वित्तस्य, दानमन्या विपत्तयः ॥२७७॥ तच्च सर्वोत्तम पात्रे, दयाधर्माय, दुःखिते। या चक्रे कीर्तिघोषाय, स्नेहपोषाय बन्धुषु ॥ २७८ ॥ भूतादौ विघ्ननाशाय, वैरघाताय वैरिषु । औचित्येन नृणां दत्तं, दानंन क्वापि निष्फलम् ॥ २७९॥ भोगेन केवलं सौख्यमैहिकं क्षणिकं भवेत् । लोकद्वयविनाशाय, तस्य नाशस्तु निश्चितम् ॥ २८०॥ पुरोधास्तद् निशम्यास्य, विचारचतुरं वचः । मुदा हृदिन माति स्म,
॥२३॥