SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥२३॥ • अध्यापयितुमारेभे, स्वयमेव पिता सुतम् ॥ २६८॥ तस्य भूमीगृहस्थस्योपरिद्रुफलकासनः । छात्राणां च पुरो बाह्ये, शास्त्रमर्थापत्यसौ ॥ २६९ ॥ निजामृष्ठे दवरकं, बद्ध्वाऽर्पयति सूनवे । सन्देहे सति चाल्योऽयमिति सङ्केतपूर्वकम् ॥ २७० ॥ महाप्राज्ञः पुनः पुत्रो, भिनत्ति स्तोकतो बहुः । अन्यदा नीतिशास्त्रस्य श्लोक एकोऽयमागतः ।। २७१॥ दानं भोगस्तथा नाशः, स्याद् द्रव्यस्य गतित्रयम् । यो न दत्ते नभुङ्क्ते च, तृतीया तस्य गतिर्भवेत् ॥ २७२॥ तस्य व्याख्यानमाकर्ण्य, सूत्रं चालयते सुतः। पुनः स्पष्टमुपाध्यायो, व्याख्यानयति पूर्ववत् ॥ २७३ ॥ भूयोऽपि चालिते सूत्रे, पुरोधा रोषतोऽखिलान् । छात्रान् विसृज्य पुत्रं स्वमाकृष्य बहिरुक्तवान् ॥ २७४ ॥रे! समुद्रसमं शास्त्रं, तरित्वा गोष्पदोपमे। श्लोकेऽतिसुगमार्थेऽस्मिन्नित्थं मूढः कथं भवान् ? ॥२७५॥ सुतोऽप्याह नतस्तात ! भवतेह गतित्रयम्। वित्तस्य वर्णितं तच्च, विचारे मेन पूर्यते ॥ २७६ ॥ यतः-आयासशतलब्धस्य, प्राणेभ्योऽपि गरीयसः। गतिरेकैव वित्तस्य, दानमन्या विपत्तयः ॥२७७॥ तच्च सर्वोत्तम पात्रे, दयाधर्माय, दुःखिते। या चक्रे कीर्तिघोषाय, स्नेहपोषाय बन्धुषु ॥ २७८ ॥ भूतादौ विघ्ननाशाय, वैरघाताय वैरिषु । औचित्येन नृणां दत्तं, दानंन क्वापि निष्फलम् ॥ २७९॥ भोगेन केवलं सौख्यमैहिकं क्षणिकं भवेत् । लोकद्वयविनाशाय, तस्य नाशस्तु निश्चितम् ॥ २८०॥ पुरोधास्तद् निशम्यास्य, विचारचतुरं वचः । मुदा हृदिन माति स्म, ॥२३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy