________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥२२॥
स्वगृहं गन्तुमुद्यतः ॥ २५५ ॥ अथ तस्य द्वितीयाऽस्ति, पण्यनारी परिग्रहे। साऽपि तावदिनान्यस्थाद, भूस्वापा मुक्तभोजना ॥ २५६ ॥ तत्स्वरूपं निवेद्यासौ, चेट्यानीतो बलादपि । तद्गृहे सोऽपि तत्रैव, स्नातभुक्तोऽवसन्निशि ॥ २५७ ॥ प्रभाते स्वगृहं गच्छन् सोमो दथ्यौ विषण्णधीः । धिङमा सुकुलजां जायामुपेक्ष्याऽवस्थितोऽत्र यः ॥ २५८ ॥ देव्याः प्रसादमासाद्य, यदत्रैवावसं निशि । तन्मे कुक्षेत्रजः पुत्रो, भावी भाव्यं हि नान्यथा॥ २५९॥ धिङ्ममाजातपुत्रस्य, पुत्रजन्मन्यपि स्फुटः । नोत्सवो भविता हृष्टलोकः स्वज्ञातिवीक्षितः ॥ २६० ॥ ज्ञात्वेदं मयि भूपोऽपि, विरागं यास्यति ध्रुवम् । तथाप्यस्य सुनाथत्वात्, कथनीयं यथातथम् ॥ २६१॥ इत्यागच्छन् नृपेणासौ, तादृशो वीक्ष्य जल्पितः। हर्षस्थाने कथं सोम ! विषण्ण इव दृश्यसे ? ।। २६२ ॥ किं विप्रतारितो देव्या, किं व्यालीकं तवाऽथवा ?। देव्यादेशं स्वदोषं न, स स्वं निन्द्रंस्तमाख्यत ॥ २६३ ॥ राजोचे कुरु मा खेदमीदृश्येव कुले यतः । तादृशा देवतादिष्टा, भवन्ति तव का क्षतिः ? ॥ २६४ ॥ परं जन्मादितः कृत्वा, प्रकाश्यस्तावदेष न। दोषध्वान्तहरो यावन्न विवेकरविः स्फुटः ॥ २६५ ॥ इति राज्ञो हितादेशसुधाविण्यातमानसः । गत्वा स्वभवनं जायां, सुगुप्तां तामकारयत् ॥ २६६ ॥ समयेऽजनि पुत्रोऽस्य, नृपस्याशु निवेदितः । प्रच्छन्नकृतसंस्कारो, व्यवर्द्धिष्ट क्रमेण च ॥ २६७ ॥ अथाध्ययनयोग्यं तं, ज्ञात्वा शास्त्रविचक्षणः । .
॥२२॥