________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥२२॥
वाच्यता? ॥ २४२ ॥ नृपोजल्पदुपायोऽस्ति, दैवस्याऽप्यनुकूलने । आराधय निजां कृत्वा, साहसं कुलदेवताम् ॥ २४३ ॥ धर्माय पूज्यते देवो, विघ्नशान्त्यै तु देवता। तत्तस्यास्तामकुर्वत्याः, किं वृथा पूजनेन भोः !? ॥ २४ ॥ इति राज्ञाऽर्पितोपायः, स देव्या भवनं गतः । शुचिर्भूत्वा पुरस्तस्या, दर्भसंस्तरके स्थितः ॥ २४५ ॥ पुत्रदानप्रसादं मे, यदा देवि ! करिष्यसि । तदाऽहं भोजनं कर्तास्मीत्यभिग्रहमग्रहीत् ॥ २४६ ॥ तृतीयदिवसे देवी, क्षुभिता तस्य सन्ततिम् । अपश्यन्ती गता सिद्धयक्षस्यान्तिकमब्रवीत् ॥ २४७ ॥ किं कुर्वे भद्र ! कष्टं मे, वर्त्ततेऽद्य यतो द्विजः । पुत्रं मां याचते नास्ति, स त्वस्य ननु तादृशः ॥ २४८ ॥ ततोऽसौ मरणं कर्ता, स्यादपूजा जने मम । इति श्रुत्वा जगौ यक्षो, मुग्धे! सुकरमुत्तरम् ।। २४९ ॥ तं ब्रूहि यदहो विप्र! तव पुत्रोऽस्ति किन्त्वसौ । परदाररतश्चौरो, द्यूत्कारश निश्चितम् ॥ २५०॥ एषामेकतमो दोषो, विश्वाऽविश्वासहेतवे। दोषत्रयजुषा त्वेष, किं सुतेन करिष्यति?॥२५१ ॥ सा प्रहृष्टा गता यक्षोदितमाख्यात् पुरोधसः । सोऽपि प्रष्टुंगतो राज्ञो, देव्यादेशं शशंसिवान् ॥ २५२ ॥ तद्विमृश्य महादक्षो, राजोचे सोम ! याच्यताम् । देवी यदीदृशोऽप्यस्तु, पुत्रः किन्तु विवेकवान् ॥ २५३ ॥ यतः-एकस्यैव विवेकस्य, तेजसा नाशमञ्जसा । यान्ति दोषा महान्तोऽपि, सिंहस्येव मतङ्गजाः ।। २५४ ॥ शिक्षामादाय तां विप्रो, गत्वा देवीमयाचत । तयाऽप्यनुमतं सोऽथ,
॥२१॥