________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥२०॥
इयता विनयः प्रोक्तो, विवेकः कथ्यतेऽधुना। यं विना शोभते न श्री, रूपं चक्षुर्विना यथा ॥२३०॥ यथाद्रिषु गुरुमैरुग्रहेषु दिवसाधिपः । चिन्तामणिश्च रत्नेषु, विवेकोऽपि गुणेष्विति ॥ २३१ ॥ भोज्ये वचंसि दानादौ, सद्विवेकानरः पराम् । प्रतिष्ठां लभते लोके, दिव्यघाटादिवोपलः ।। २३२ ॥ विवेकेनाऽविवेकेन, धर्मो यैर्विहितः पुरा । तेत्र क्रमेण जायन्ते, पतयः पत्तयः श्रियः ॥ २३३ ॥ विवेकदीपकालोकसप्रकाशीकृतेऽध्वनि । चरन्तो न स्खलन्त्येव, कलिध्वान्तेऽपि कोविदाः ॥ २३४ ॥ विवेको गुरुवत्सर्व, कृत्याकृत्यं प्रकाशयेत् । सन्मित्रवदकृत्याच, वारयेत्सुमतिर्यथा॥ २३५॥
तथाहि-श्रीसेनः श्रीपुरेऽस्ति स्म, राजा राज्यमहारथम् । यो निर्वाहितवान् पृष्टन्यायधर्मवृषः सुखम् ।। २३६ ॥ पुरोधास्तस्य सोमाख्यः, सद्गुणकृमिको हितः । कुलोद्योतनदीपाभपुत्राभावात् सुदुःखितः ॥ २३७ ॥ अन्यदा तं नृपः प्राह, तवेयमनपत्यता । यथा मां बाधते बाढ़, भवन्तं सोम! नो तथा॥ २३८॥ निव्यूढोऽयमियत्कालमावयोरन्वयक्रमः। अतः परं मत्पुत्रस्य, कः पुरोधा भविष्यति? ॥ २३९ ॥ अवंशपतिते तस्मिन्, विश्वासः कीदृशो भवेत् ? । तदेवमपि कस्मात्त्वं, निश्चिन्त इव दृश्यसे ?॥२४०॥ स प्राह चिन्तया देव ! किं परायत्तवस्तुनि ? । जीवितं सन्ततिव्यं, दैवायत्तमिति त्रयम् ॥२४१ ॥ उक्तं च-आत्मायत्ते गुणाधाने, नैर्गुण्यं वचनीयता । दैवायत्ते पुनः कार्ये, पुंसः का नाम
॥२०॥