________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥१८॥
! हा! निष्कमलं राज्यं, वृथामे भविताऽखिलम्॥२०५॥ तद्वत्वा बोधयाम्येतां, निश्चित्यैवं तथाऽकरोत् । परं सम्बुध्यते नैव, ततः स पुनरब्रवीत् ॥ २०६ ॥ किं जीविते शुके देवि ! जीवसीति प्रतिश्रुते । एवमित्युदिते भूपो, दप्यो सिद्ध समीहितम् ॥ २०७॥ शुकं जीवयुतं कृत्वा, नीत्वाऽन्यत्र विमुच्य च। प्रतिज्ञां पूरयित्वाऽस्याः, प्रवेक्ष्यामि निजांतनुम् ॥२०८॥ इत्येकान्ते तनुं मुक्त्वा, कीरमाविश्य सोऽललत् । नृपोऽपि गृहगोधाचं त्यक्त्वा स्वतनुमाविशत् ॥ २०९ ॥ रविक्रान्ताभ्रपटलीमिव तेजस्विनी तनुम् । दधानो विक्रमनृपो, लघु देव्यन्तिके ययौ ॥ २१० ॥ दर्शनात्तस्य कमलमालेव कमलावती । सद्यो विकाशमापन्ना, श्रिया च समलकृता ॥ २११ ॥ मूर्तिर्जाया च सत्येव, राजयो यान्यनरागमे । निष्फला सकला चैव, सद्यः स्वपतिसमे ॥ २१२ ।। दृष्ट्वा पूर्ववदालापं, गतिं वेषं निरीक्षणम् । रुदन्ती पादयोः पत्युः सहसोत्थाय साऽलगत् ॥ २१३ ॥ जगौ च जीवितं स्वामिन्नेकं देशान्तरेण ते । बभूव दुःखमपरं, तव कूटप्रपञ्चतः ॥ २१४॥ कथं कायान्तरेणाऽहं, वराकी विप्रतारिता। देशान्तरकलालाभे, परीक्षा मयि किदृशी ? ॥ २१५ ॥ यदेवमपि निव्यूढं, महिलामात्रया मया। प्रभावस्तदयं सर्वस्तव पादप्रसादजः ।। २१६ ॥ अधुना मेऽखिलं तावत्स्वस्वरूपं निरूप्यताम् । नृपः प्राह तव प्रेयान्, कीरोऽसौ कथयिष्यति ॥२१७॥राज्याह देव! को हेतुर्यदर्थे मृत्युरादृतः। स दृष्टोऽप्यधुना बाढमनिष्टो मेऽभवच्छुकः ,
॥१८॥