________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥१६॥
राज्ञो, घटते ब्रह्मचारिता॥१७९॥ मुनि नत्वा ततो राज्ञी, वहन्ती परमां मुदम् । वनस्यैकतमे देशे, गत्वा वासितवत्यसौ ॥ १८०॥ कारयित्वा रसवर्ती, स्वपरिच्छदहेतवे । पारयित्वा मुनि पूर्णाभिग्रहा बुभुजे स्वयम् ॥ १८१ ॥ आप्रष्टुं गतया देव्या, पुनः पृष्टो मुनिः कथम् । नद्युत्तार्या मयेदानी ? मुनिराह प्रशान्तवाक् ॥ १८२ ।। नदी देवी त्वया भाण्या, यद्यसौ मुनिराव्रात् । उपोषितश्चरेन्नित्यं, तदा मार्ग प्रयच्छ मे॥१८३॥ पुनर्विस्मयमापन्ना, राज्ञी नद्यास्तटं गता। श्रावयित्वा मुनेर्वाक्यं, नदीं तीा ययौ गृहम्॥१८४॥राज्ञो निवेद्य तत् सर्व, पप्रच्छ च कथं मुनिः । उपोषित: स्याद् यः स्वेन, पारणं कारितो मया ? ॥ १८५ ।। राजाख्यद् देवि ! मुग्धाऽसि, धर्मतत्त्वं न विन्दसि । समचित्तो महात्माऽयमशनेऽनशनेऽपि वा ॥ १८६ ॥ तथा-अकृताऽकारितं शुद्धमाहारं धर्महेतवे । अनतोऽपि मुनेनित्योपवासफलहेतवे ॥१८७ ॥ मनो मूलं वचः स्कन्धः, क्रिया: शाखादिविस्तरः । धर्मवृक्षस्य तन्मूले, दृढे सर्व प्रजायते॥१८॥स्वभर्तुर्दैवरस्याऽपि, माहात्म्यं वीक्ष्य तादृशम्। अनुमोदनयैवात्मा, तया राज्या पवित्रितः ॥ १८९ ॥ यदिदं गदितं धर्मतत्त्वमाख्यानसंयुतम् । मया कीरेण ते देवि ! ज्योत्स्नाधवलनं हि तत् ॥१९०॥ सतीनां यत् स्वभावेन, सज्ञानं मानसं भवेत् । तेन कूटे स्खलत्येव प्रौढपण्डितवद् ध्रुवम् ॥१९१॥ सुविचारं सगर्भ च, वचः श्रुत्वा शुकादिदम् । राज्ञी दध्यौ न सामान्यः,
॥१६॥