________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥१४॥
नास्त्यहिंसासमोधों, न संतोषसमं व्रतम् । न सत्यसदृशं शौचं,शीलतुल्यं न मण्डनम्॥१५३ ॥ उक्तं च-सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ॥ १५४॥ स्नानं मनोमलत्यागो, दानं चाभयदक्षिणा । ज्ञानं तत्त्वार्थसम्बोधो, ध्यानं निर्विषयं मनः ॥ १५५ ॥ गृहेऽपि वसतां नित्यमनतामपि श्रद्धया मनःशुद्ध्या भवेद्धर्मस्तपसाऽपि न तां विना॥१५६ ॥ उक्तं चमन एव मनुष्याणां, कारणं बन्धमोक्षयोः । बन्धने विषयासङ्गि, मुक्तौ निर्विषयं पुनः ॥ १५७ ॥ तथा हि-पुरा सूरनृपः पुर्या, बहिरुद्यानमागतम् । मुनि सोदरमाकर्ण्य, तत्रागात्सपरिच्छदः ॥ १५८ ॥ मुनि प्रणम्य भावेन, स्फुटरोमाञ्चभूषणः । निशम्य तन्मुखाद्धम, गतः स्वभवनं नृपः ॥१५९ ॥ पट्टराज्यपि सोत्कण्ठा, वन्दितुं देवरं मुनिम् । आपृच्छ्य नृपति सायं, जग्राहेत्थमभिग्रहम् ॥१६०॥ सोमाभिधं मुनि प्रातर्मया सपरिवारया। वन्दित्वा पारयित्वाच, भोक्तव्यमिति नान्यथा॥१६१॥ अथाऽन्तराले नद्यस्ति, पुरस्योपवनस्य च । निशीथे साऽऽथ पूरेणाऽऽगताऽगाधा वहत्यलम् ॥ १२ ॥ तेनाऽऽकुलमना राज्ञी, प्रभाते निजवल्लभम् । पप्रच्छ कथमद्याऽसौ, पूर्यते मे मनोरथः ? ॥१३॥ उवाच नृपतिर्देवि!, मा कार्षीः खेदमीदृशम् । येनेदं सुकरं सुस्था, गच्छ त्वं सपरिच्छदा ॥ १६४ ॥ अर्वाक्तीरे नदीदेवी, समाह्वानपुरस्सरम् । योजयित्वा करी शुद्धमानसेदं वदेवचः ॥ १६५ ॥ हे देवि ! नदि ! भर्ता मे,
गतर्मया सपरिमूनिम् । आपृच्छ्यानम, गतः स्वभवनं
॥१४॥