________________
श्रीजैन कथासंग्रहः
॥१३॥
google
कर्णे, सूत्रं वक्त्रेण निर्ययौ । तस्य मूल्ये कपर्दोऽभूत्, येनासौ यत् श्रुतं लपेत् ॥ १४० ॥ द्वितीयस्य पुनः कर्णे, क्षिप्तं कर्णेन निर्गतम् । तस्य मूल्ये कृतं लक्षं, येनासौ श्रुतविस्मृतः ॥ १४१ ॥ तृतीयस्य तु निक्षिप्तं, कर्णेऽगाद् गलसम्मुखम् । अमूल्योऽसौ यतस्तस्य तिष्ठति स्म हृदि श्रुतम् ।। १४२ ।। तदेवं परदोषेषु, देवि ! श्रुत्वा निदर्शनम् । सकर्णाः के न जायन्ते, गाम्भीर्यमयमानसाः ॥ १४३ ॥ इति शुकोक्तिरक्तात्मा, प्रतिज्ञां कमलाऽकरोत् । जीवितं मरणं कीर ! त्वया सह मम ध्रुवम् ।। १४४ ।। सुधीरेतां शुकोऽप्याह, मैवं वद नृपप्रिये !। क्वाहं पशुलवः क्वासि, प्रिया विक्रमभूपतेः ॥ १४५ ॥ किञ्च देवि ! प्रियः स्नेहात् कुरुते ते गतागतम् । त्वं तु तस्य कथं स्निग्धं, नालापमपि यच्छसि ? ॥ १४६ ॥ तच्छ्रुत्वा कमला दीर्घं, निःश्वस्याह शुकोत्तम ! प्रियं देशान्तराऽऽयातं, दृग् ब्रूते मे मनस्तु न ॥ १४७ ॥ ततोऽहं क्षुभिता दत्त्वोत्तरं भूपं विसर्जये । त्वं तु प्रिय इव प्रीतिं कुरुषे तदिदं ब्रुवे ।। १४८ ॥ ततो राजशुको दध्यौ, महाहर्षेण पूरितः । परकायप्रवेशाख्या, विद्या मे सफलाऽभवत् ।। १४९ ।। देव्याश्चित्तपरिक्षा मेऽभविष्यत्कथमन्यथा ? । किञ्चानेनानुभावेन, भविताऽन्यदपि प्रियम् ॥ १५० ॥ पुनः प्राह शुकं देवी, तवामृतकिरा गिरा । तुष्टाऽतीवास्मि तत्किञ्चिद्, धर्मतत्त्वं वदाधुना ।। १५१ ।। स डूचे श्रूयतां देवि ! मया मुनिमुखात् श्रुतम् । परोपकारः पुण्याय पापाय परपीडनम् ।। १५२ ।।
कथाचतुष्टयी ।
॥१३॥