________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥१२॥
प्राह-नकारः) लक्ष्मी-खेद-निषेधार्थ-ब्रह्म-चक्राङ्ग-शर्मणाम् । के शब्दा वाचकाः खान्तं, ब्रूहि किं णान्तमिच्छसि?॥१२९॥ अर्थिनां का सदा चित्ते?, का दग्धा कपिना पुरा?। इक्षुयष्टेः किमिच्छन्ति ?, किं च हंसस्य सुन्दरम् ? ॥१३०॥ सुकवीनां वचः कीदृक् ? शुकेन विषमे कृते । इति प्रश्ने यदा राजी, कमला नावदत् तदा ॥ १३१ ॥ एकद्विसर्ववर्णानां, परिपाटीक्रमेण सः । शुक एवोत्तरं चक्रे, ईहालङ्कारसङ्गतम् ॥१३२॥ हितोपदेशं परमं, किञ्चित् पठ सुभाषितम् । इति रांज्याऽन्यदा पृष्टः, कीरः प्राह निशम्यताम्॥१३३॥ सुपरीक्ष्य कृतं कार्य, सुविमृश्योदितं वचः। इन्द्रियाणि सुदान्तानि, विकुर्वन्ति कदापिन॥१३४॥ चित्तमार्जवसम्पन्न, वचो-मधुरिमाञ्चितम् । वपुर्विनयननं च, न भवत्यमहात्मनाम् ॥ १३५ ॥ मुहूर्त्तकाऽवधिः क्रोधो, यथाकालावधि व्रतम् । प्रतिपन्नं पुनलोंके, महतां जीवितावधि ॥१३६ ॥स्वश्लाघा परनिन्दाच, मत्सरो महतां गुणे। असम्बद्धप्रलापित्वमात्मानं पातयन्त्यधः ॥१३७॥ अपरोद्रोहकं वाक्यं, प्रसन्ना वदनद्युतिः । मानसं श्रुतगम्भीरं, नरमूव नयन्त्यमी॥१३८॥ यथो कोऽपि पुरा भूपः, कारयामास पण्डितैः । देशान्तरनराऊनीतत्रिकपालीपरीक्षणम् ॥ १३९ ॥ तत्रैकस्याऽऽहितं १ क्रमश उत्तराणि-ई, हा, अलम्, कः, आरः, सम्, कवर्ग खस्यान्तभूतो गकारः, टवर्गे णस्याऽन्ते तकारः । ईहा, ला, रसम्, गतम्, ईहालकारसङ्गतम्। .
-
॥१२॥