SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥११॥ . नाग-नारने, निम्ब-तुम्बे पुनर्लगेत् । लगत्युक्ते लगेन्नैव, मा मेत्युक्ते भृशं लगेत् ॥ ११८ ॥ तत्किं मे कथ्यतामेवं, भूयः पृष्टा शुकेन सा?|क्षणं विमृश्य देव्याह, हुं ज्ञातं ओष्ठसम्पुटम् ॥ ११९ ॥ विहिता निर्विषा नागा, देवाः शक्तिविवर्जिताः । निश्चेष्टाश्च यथा सिंहाः, सा बालैर्धियते करे ॥ १२०॥ केयमित्युदिते राज्या, द्रुतं ज्ञात्वा शुकोऽब्रवीत्। शृणु ज्ञातं मया देवि!, सा चित्रकरलेखनी॥१२१॥ गजायेन हताः सिंहाः, क्रान्ता व्याकुलिता भटाः । स कोलिकगृहे वीरो, देवि! बद्धो मयेक्षितः॥१२२॥ शुकोदितमिति प्रश्नं, श्रुत्वा स्मृत्वा च सा जगौ। हसन्ती यदहो! वीर ! ईदृशो मशकः स्फुटम् ॥१२३॥ मृणालाभमहिव्यूहमञ्जनं क्षीरसन्निभम् । नभः कर्पूरसङ्काशं, राज्या गूढचतुर्थके ॥१२४ ॥ इति पृष्टे शुकः प्राह, करोति यशसा महान् । दोषोऽपि गुणतां याति, विषमप्यमृतायते ॥ १२५॥ ("मित्राणि शत्रवोऽपि स्युः" इति शुकेन गूढचतुर्थके पृष्टे राज्ञी चतुर्थपदं प्राह-अनुकूले विधौ नृणाम्) कृपणोऽपि नृपाय॑ः स्याद्, उदारस्यापि लौल्यता । भावाभावेन यस्यायमाख्यातोऽपि न बुध्यते ॥ १२६ ॥ (इति राज्या पृष्टे शुकः प्राह-आकारः) साकारः कष्टकारी स्यात्, सविकारः सतां मतः। सनिकारो जनाभीष्टः, केवलस्तु निरर्थकः ॥ १२७ ॥ (इति शुकेन पृष्टे राज्ञी प्राह-धिक्कारः) नक्तमादौ दिनस्यान्ते, प्रदोषादपरोऽस्ति यः । मानसान्तर्गतोऽप्येष, लक्ष्यते न कथञ्चन, ॥ १२८ ॥ (इति राजया पृष्टे शुकः ॥११॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy