________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥११॥
. नाग-नारने, निम्ब-तुम्बे पुनर्लगेत् । लगत्युक्ते लगेन्नैव, मा मेत्युक्ते भृशं लगेत् ॥ ११८ ॥ तत्किं मे
कथ्यतामेवं, भूयः पृष्टा शुकेन सा?|क्षणं विमृश्य देव्याह, हुं ज्ञातं ओष्ठसम्पुटम् ॥ ११९ ॥ विहिता निर्विषा नागा, देवाः शक्तिविवर्जिताः । निश्चेष्टाश्च यथा सिंहाः, सा बालैर्धियते करे ॥ १२०॥ केयमित्युदिते राज्या, द्रुतं ज्ञात्वा शुकोऽब्रवीत्। शृणु ज्ञातं मया देवि!, सा चित्रकरलेखनी॥१२१॥ गजायेन हताः सिंहाः, क्रान्ता व्याकुलिता भटाः । स कोलिकगृहे वीरो, देवि! बद्धो मयेक्षितः॥१२२॥ शुकोदितमिति प्रश्नं, श्रुत्वा स्मृत्वा च सा जगौ। हसन्ती यदहो! वीर ! ईदृशो मशकः स्फुटम् ॥१२३॥ मृणालाभमहिव्यूहमञ्जनं क्षीरसन्निभम् । नभः कर्पूरसङ्काशं, राज्या गूढचतुर्थके ॥१२४ ॥ इति पृष्टे शुकः प्राह, करोति यशसा महान् । दोषोऽपि गुणतां याति, विषमप्यमृतायते ॥ १२५॥ ("मित्राणि शत्रवोऽपि स्युः" इति शुकेन गूढचतुर्थके पृष्टे राज्ञी चतुर्थपदं प्राह-अनुकूले विधौ नृणाम्) कृपणोऽपि नृपाय॑ः स्याद्, उदारस्यापि लौल्यता । भावाभावेन यस्यायमाख्यातोऽपि न बुध्यते ॥ १२६ ॥ (इति राज्या पृष्टे शुकः प्राह-आकारः) साकारः कष्टकारी स्यात्, सविकारः सतां मतः। सनिकारो जनाभीष्टः, केवलस्तु निरर्थकः ॥ १२७ ॥ (इति शुकेन पृष्टे राज्ञी प्राह-धिक्कारः) नक्तमादौ दिनस्यान्ते, प्रदोषादपरोऽस्ति यः । मानसान्तर्गतोऽप्येष, लक्ष्यते न कथञ्चन, ॥ १२८ ॥ (इति राजया पृष्टे शुकः
॥११॥