________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥१०॥
तदीयवर्णनात्यर्थतुष्टा राज्ञी व्यचिन्तयत् । काव्यशास्त्रविनोदाय, ददौ मे प्राभृतं विधिः ॥ १०५ ॥ सोत्कण्ठं चावदच्चेटी, रेयाहि त्वरितैः पदैः। पुंसो यद्याचितं दत्त्वा, शुकराजमिहानय ॥१०६॥ चेट्या तथाकृते व्याधः, कृतार्थः स्वास्पदं ययौ। कीरं कराम्बुजे कृत्वा, नीतो देव्यन्तिके तया॥१०७॥ दृष्ट्वा सन्मुखमायान्ती, हर्षेण कमलावतीम् । दक्षिणं भुजमुत्क्षिप्य, पपाठ मधुरं शुकः ॥ १०८ ॥ देवि ! वामभुजस्थत्वद्धारोद्धाराय विक्रमः। प्रतिमानमिव क्षोणी, धत्ते दक्षिणबाहुना॥१०९॥सा हसित्वाऽऽह कीर! त्वमियतेदं ब्रवीषि यत् । धरैश्वर्य विना नारीभारः क्रष्टुं न शक्यते ॥११०॥ साधु साधु त्वया प्रोक्ता, भूरिभारकरा वयम् । सत्यवाक्येन को न स्यात्, तुष्टो यः पण्डितो भवेत् ? ॥१११॥ लजयेति शकोपज्ञां, गोपयित्वात्मवर्णनाम् । सा स्वर्णपञ्जरे चारुनिषद्ये तमधारयत् ॥ ११२ ॥ स्वयं संस्कुरुते स्थानं, परिमार्जन-धूपनैः । सजाम्बु-दाडिमीबीजाऽऽमलकानि च यच्छति ॥ ११३ ॥ अन्यान्यपि तदिष्टानि, पेयभक्ष्याण्यढौकयत् । तत्संलापामृतनित्यमात्मानं प्रीणयत्यसौ ॥ ११४ ॥ पठ प्रश्नोत्तरं किञ्चिदिति राजया नियोजितः । शुको विद्याविनोदाय, पपाठ सहसैव सः॥११५॥ योगी किं ध्यायते ध्याने ? गुरवे क्रियते किमु ? प्रतिपन्नं सतां कीदृग् ? आदौ छात्राः पठन्ति किम् ?॥११६ ॥ इति पृष्टे यदा राज्ञी, चिन्तयन्त्यपि सा चिरं। न जानाति तदा सोऽदाद, ॐनमः सिद्धमुत्तरम् ॥११७॥ न लगेद्
॥१०॥