________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥९॥
- किंवा स्तोकमिदं पुंसो, दुर्बुद्धेः खलसङ्गिनः । इति चिन्ताब्धिक्षुत्-तृष्णा-तापैराचक्रमे नृपः॥१२॥
सम्प्राप्य वटवृक्षस्य, च्छायां विधुरबन्धुवत् । स्वस्थीभूतः क्षणं तत्र, नरमेकं ददर्श सः ॥ १३ ॥ वटपादान्तरस्थं तं, धनुर्गोलिकया शुक्रान् । मन्तं वीक्ष्य स दुष्पूरदुर्वहाङ्गेन खेदितः ॥ ९४ ॥ दथ्यौ किममुनाङ्गेन, श्रेयानृद्धौ हि विस्तरः ?। तद्विशामि शुकस्याङ्गमिति राजा तथाऽकरोत् ॥९५॥ युग्मम्॥ व्याधमाह शुको भद्र !, बहुकीरवधेन किम् ?। अवन्त्यां नय मां टकसहस्रं लप्स्यसे ध्रुवम् ॥ ९६ ॥ किन्तु मे प्रत्ययोजन्यस्तच्छुत्वा मुदितो नरः । अभयप्रत्ययं तस्योत्पाद्य जग्राह तं करे॥९७॥ पाययित्वा जलं चूनी, दौकयित्वा सुनिर्वृतम् । शुकं कृत्वा गतोऽवन्ती, व्याधो राजपथे स्थितः ॥ ९८ ॥ लोको वदति किं मूल्यं, सहलं भाषते नरः । कीरं पृच्छति यल्लोकस्तत्तच्छास्त्रं पठत्यसौ॥ ९९॥याचितादधिकं मूल्यं, जनो दत्ते परं नरः । नादत्ते कीरवाक्येन महार्योऽभूत् ततोऽधिकम् ॥ १०० ॥ चेट्योऽथ कमलावत्याः, प्राप्तास्तन्मर्मकोविदः । कीरस्तदेकया पृष्टः, पपाठ मधुराक्षरैः ॥ १०१ ॥ तवाक्षिविशिखैर्विद्धः, सुभगोऽस्मीति जीवति । अविद्धो म्रियते तन्वि! धनुर्विद्येयमद्भुता ॥१०२॥ किञ्चित् त्वमपि भाषस्व, यत् पठाम्यनु शिष्यवत् । तयोचे गुरुरेव त्वं, कस्य शिष्यत्वमर्हसि ?॥१०३॥ इति हर्षोत्सुका चेटी, गत्वा देव्यै न्यवेदयत्। न दृष्टो न श्रुतः कीरः, सुकविः स्वामिनीदृशः ॥१०४॥
॥९॥