________________
श्रीजैन कथासंग्रहः
ዘረዘ
भवनान्निर्ययौ नृपः ॥ ७८ ॥ इतश्च तं गजं मन्त्री, राजपाट्यै व्यभूषयत् । सुचिरादागतं येन, स्वामिनं वीक्षते जनः ॥ ७९ ॥ यथा राजाऽपि नगरं दृष्ट्वा मुदितनागरम् । स्वस्थीभूतमनाः सर्वमालापयति पूर्ववत् ॥ ८० ॥ अन्योऽन्यमथ जल्पन्ति, हस्तिशृङ्गारकारकाः । अहो ! शून्य इव स्वामी, देशान्तरगमादभूत् ॥ ८१ ॥ इत्याकर्ण्य स दन्तीन्द्रो, व्याकुलश्चिन्तयत्यहो ! । किमिदं हा ! द्विजो राज्ये, मन्मूर्त्या ललति ध्रुवम् ॥ ८२ ॥ गुरुणा वारितेनाऽपि यद्विद्या दापिता मया । विप्राधमाय तस्येदं, शीघ्रमासादितं फलम् ॥ ८३ ॥ अविश्वासमयीं नीतिमभ्यस्तां बाल्यतोऽस्मि यत् । विस्मार्य तस्य विश्वस्तस्तत् किञ्चिद् दैवतं ध्रुवम् ॥ ८४ ॥ नीचोऽप्युच्चैर्भवेद् दैवादुच्चोऽपि हि लघुर्भवेत् । सैव विद्या श्रियं तस्य कुरुते हरते मम ॥ ८५ ॥ कलत्रपरिवाराद्यं, वस्तु कायानुगं भुवि । काये व्रजति तत्सर्व, परकीयं ममाऽभवत् ॥ ८६ ॥ यथेहाध्यक्षतो दृष्टं, तथाऽमुत्राऽपि देहिनः । कर्मैव सहगं तेन, सुकृतं कुर्वते बुधाः ॥ ८७ ॥ भवतु प्राप्तकालीनं कुर्वे तावत्पलायनम् । मा ममास्तु तदारोहे, पापस्योपरि चूलिका ॥ ८८ ॥ सम्प्रधार्येदमुत्कर्णी, व्याकुञ्चितकरः करी। वेगेन गन्तुमारब्धो, जज्ञे कलकलो महान् ॥८९॥ पादचाराऽश्ववाराद्यैर्दधावेऽनु सहस्रशः । अधिकाधिकगत्याऽस्य, निर्विण्णैस्तु न्यवर्त्तत ॥ ९० ॥ दूरारण्ये करी गत्वा श्रान्तो दध्यौ विषण्णधीः । क्व भ्रूसंज्ञाभवत्कार्यं, राज्यं क्वेदं पलायनम् ? ॥ ९१ ॥
कथाचतुष्टयी।
ዘመ