________________
श्रीजैन कथासंग्रहः
॥७॥
समागतः । दुग्धेऽसौ शर्करापात इत्यूचानोऽमिलज्जनः ॥ ६५ ॥ तेषां यथोचितालापप्रसादमभिवाञ्छताम् । नामकर्माद्यजानानो, न करोति किमप्यसौ ॥ ६६ ॥ सहर्षमागता देव्याः, प्रियसख्योऽपि तादृशम् । लीलाविलासलालित्यरसं नासादयन्त्यतः ॥ ६७ ॥ अमात्यः पालितप्राज्यराज्यः सम्भाषणं नहि । मानं प्रधानसामन्ता, लभन्ते नापि नागराः ॥ ६८ ॥ ते तादृशं नृपं दृष्ट्वा, चिन्तयन्त्येष किं सुरः । दैत्यो वा राजरूपेण, शून्यराज्यमधिष्ठितः ? ॥ ६९ ॥ नैतत्तु घटते पादौ, येनास्य लगतः क्षितौ। निमेषश्च दृशोस्तेन, चित्तचालः कुतोऽप्यसौ ॥ ७० ॥ चित्तं विरहसन्तप्तं कमलावचनामृतैः । निर्वाप्यं चेदित्यमात्यस्तां चेट्याऽऽनाययत् ततः ॥ ७१ ॥ स कृत्रिमनृपो दध्यावहो ! मे सुमना विधिः । येनानीत इमां भूमिं मनसोऽपि सुदुर्लभाम् ॥ ७२ ॥ राज्ञी सम्भ्रान्तमुत्थाय, मण्डयत्यासनादिकम् । दृष्ट्वा च तं पुनर्भूपं, मूर्च्छितेव पतत्यधः ॥ ७३ ॥ उक्ता चेटीभिरुत्थाप्य, किमिदं देवि ! ? कथ्यताम् । नृपोऽप्याह कथं देवि ! मूर्च्छाघातो मदागमे ? ॥ ७४ ॥ तद्वचः श्रवणाद् जातमहार्तिः साऽप्यचिन्तयत् । एष प्रिय इवेक्ष्येत, दाहं दत्ते तु वैरिवत् ।। ७५ ।। लब्धोपायाऽवदद् देवी, देव! यात्राक्षणे मया । शुभागमाय वश्चण्ड्या, उपयाचितकं कृतम् ।। ७६ ।। यथा देवि ! प्रपूज्य त्वां वीक्षे दृष्टयाऽपि वल्लभम् । तदकृत्वेक्षमाणा त्वां, चण्ड्याऽहं पतिता भुवि ॥ ७७ ॥ तत्पूजासमयं देव ! कथयिष्याम्यहं स्वयम् । इति दत्तोत्तरो राज्ञ्या,
कथाचतुष्टयी।
11011