SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥६॥ दिनं स्थित्वा, बहिर्मुक्त्वा द्विजं निशि । निजराज्यस्थितिं द्रष्टुमेकाकी प्राविशत्पुरम् ।। ५२ ।। पूर्ववद् देवहर्म्येषु, सङ्गीतोत्सवनाटकैः । सुरम्यं व्यवहाराद्यं, सद्धर्माचारधार्मिकम् ॥ ५३ ॥ क्षत- स्खलितशङ्कादौ, चिरं जीवतु विक्रमः । इत्यूचानं जनं हृष्टो वीक्षते सर्वतः पुरम् ॥ ५४ ॥ युग्मम् ॥ तदा च नृपसौधान्तः, पट्टकुञ्जरमृत्युना । तल्लोकमाकुलं दृष्ट्वा, ययौ राजा द्विजान्तिके ॥ ५५ ॥ उवाच मित्रं भो ! विद्याविलासरसिको गजे । प्रविश्य चरितं किञ्चिद्, वीक्षे प्रासादमध्यगम् ॥ ५६ ॥ एकान्ते मम कायस्य, तत् त्वं प्राहरिको भव ज्ञातस्वरूपः प्रकटो, भविष्यामि त्वया सह ॥ ५७ ॥ इति स्वं तत्र मुक्त्वाङ्गं, राजा गजकलेवरम् । प्रविवेश करीन्द्रोऽपि पूर्ववद्विलसत्यलम् ।। ५८ ।। न केवलं गजो राज्ञा, सजीवो विहितो निजः । राजवर्गोऽपि तन्मृत्युमृतः सर्वोऽपि जीवितः ।। ५९ ।। प्रावर्त्तन्त गजेन्द्रस्य, विविधा मङ्गलोत्सवाः । कायान्तरगतस्यापि राज्ञो भोगप्रदो विधिः ॥ ६० ॥ इतश्च दुर्जनात्माऽसौ, तनुप्राहरिको नरः । विश्वासघातको मित्रद्रोही लोभादचिन्तयत् ॥ ६१ ॥ महादारिद्र्यदग्धेन, किमनेनाङ्गकेन में ? प्रविश्य विक्रमस्या, कुर्वे राज्यं निराकुलः ।। ६२ ।। तथा कृत्वा स सौधान्तः, प्रविष्टः कृत्रिमो नृपः । योग्यभूमिमजानान-श्चकितोऽरण्यजीववत् ।। ६३ ।। ससम्भ्रमागतामात्यबाहुलग्न: सदःस्थितम् । सिंहासनमलञ्चक्रे, प्रणतो राजपूरुषः ॥ ६४ ॥ करीन्द्रो जीवितो दिष्टया, नरेन्द्रोऽपि कथाचतुष्टयी । ॥६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy