________________
श्रीजैन
कथाचतुष्टयी।
कथासंग्रहः
॥५॥
त्वद्भक्तेः स्यां यथाऽनृणः ॥ ३९॥ तच्छुत्वा विक्रमः स्वार्थशिथिलोऽग्रेतनं नरम् । चिरकालाऽऽगतं. दीनं, दृष्ट्वा दम्यौ लसद्दयः ॥ ३९ ॥ अस्मिन् पुरःस्थिते हन्त ! निराशे गुरुबान्धवे । लब्धविद्यः कथं यामि, तदेतामस्य दापये ॥ ४०॥बभाषे च प्रभो! पूज्य ! सेवाहेवाकिनश्चिरात् । अस्य विद्याप्रदानेन, प्रसादो मेऽस्तु तावकः ॥ ४१ ॥ सविषादं गुरुः प्राह, मा दुग्धं पाययोरगम् । अयोग्योऽयमपात्रे हि, विद्याऽनर्थकरी भृशम्॥४२॥ यथा कोऽपि पुरा विद्यासिद्धः सिंहास्थिदर्शनात् । सिंहाङ्गं सकलं कृत्वा, सजीवं कर्तुमुद्यतः॥४३॥वारितो बन्धुना किन्तु, सजीवमकरोन्मदात् । हतोऽसौ तेन सिंहेन, त्वमप्येवं विभावय ॥४॥एवमुक्तोऽपि सिद्धस्य, परार्थव्यसनी नृपः। लगित्वा पादयोर्बादं, तस्मै विद्यामदापयत् ॥४५॥ गुर्वादेशोपरोधेन, जगृहे च स्वयं नृपः । विधिश्च साधने तस्याः , सिद्धेन कथितः स्फुटम्॥४६॥ अविसृष्टोऽपि गुरुणा, द्विजोऽभूद् गन्तुमुत्सुकः । न तु राजा विसृष्टोऽपि, गुरुवात्सल्यभारितः॥४७॥ यत:-कलाकलापसम्पन्ना, उपकर्तुः पराङ्मुखाः। न भवन्ति महात्मानः, सरस: शिखिनो यथा॥४८॥ त्वं स्वकृत्यपरो भावी, धर्मध्यानपरा वयम् । अनिच्छन्तमपीत्युक्त्वा, विससर्ज नृपं गुरुः॥४९॥स्वयं विधाय विप्राच्च, विधाप्य विधिसाधनम् । सिद्धविद्यो नृपस्तेनानुगतः स्वपुरं ययौ ॥ ५० ॥ द्विजायात्मीयवृत्तान्तं, सौहदेन न्यवेदयत्। स्वच्छत्वेन गम्भीरोऽपि, दर्शयत्युदधिर्मणीन्॥५१॥ गुप्तवृत्त्या
॥५॥