SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥४॥ समां राजा, राज्यकाय स्वमन्त्रिणम्। आरोप्य नगराद्विद्याकौतुकी निशि निर्ययो॥ २७॥ तादृग्राज्यसुखं हित्वा, दुःखान्यगणयन् पथि । नवार्थरसिकः सत्त्वसहायो यात्यसौ मुदा ॥ २८ ॥ यतः-नीचा: शरीरसौख्यार्थमृद्धिव्यापाय मध्यमाः। कस्मैचिदद्भुतार्थाय, यतन्ते पुनरुत्तमाः॥ २९ ॥ एवं च व्रजतो नित्यं, मानसोत्साहरश्मिभिः । आकृष्ट इव तस्याऽऽशु, श्रीगिरिनिकटोऽभवत् ॥ ३०॥ सिद्धेश्वराभिधं विद्यासिद्धं तत्रैकदेशगम् । प्रसन्नास्यं नृपो दृष्ट्वा, तुष्टो नत्वा ततोऽवदत् ॥ ३१ ॥ त्वमूर्तिदर्शनेनैव, कृतार्थोऽहं मुनीश्वर ! । अयच्छन्नब्रुवाणोऽपि, जगदाहादयेच्छशी ॥ ३२ ॥ अतस्तव पदाम्भोजद्वयं दुर्लभसङ्गमम् । संसेविष्येऽनुजानीहीत्यनिषिद्धस्तथाऽकरोत् ॥ ३३ ॥ तत्रैको ब्राह्मणोऽग्रेऽपि, विद्यायै तिष्ठते चिरात् । तत्कृतो विनयोऽप्यस्य, दुःखाय मुहरर्थनात् ।। ३४ ।। बीजमुप्तं शुभक्षेत्रे, स्वयमेव यथोदयेत् । तथाऽन्यदपि सत्कर्म, दैन्यं क्लेशाय केवलम्॥३५॥ आसनन्यास-चरणक्षालनाद्यैर्मनोगतैः । नृपस्य विनयैर्याञ्चारहितैर्मुमुदे गुरुः॥३६॥ एकाग्रमनसा ध्याता, देवाः शैलमया अपि । अचिरेणैव तुष्यन्ति, किं पुनश्चेतनो जनः ? ॥ ३७ ॥ अब्रवीच महाभाग ! सदाचारेण ते मया । ज्ञातं कोऽपि नरोत्तंसस्त्वं देशान्तरकौतुकी॥३८॥ विनयात्तव तुष्टोऽस्मि, तत्त्वं विद्यां गृहाण मे। परकायप्रवेशाख्या, १ व्यापो-विस्तारः। ॥४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy