________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥३॥
॥अन्यदाऽसौ निजाऽऽस्थानमिन्द्राऽऽस्थानसमं नृपः। दृष्ट्वा प्रमुदितोऽत्यन्तं, पप्रच्छेदं सभासदः॥१५॥ अहो ! ब्रूत कला-विद्या-वस्तुविज्ञानमद्भुतम् । तत् किमप्यस्ति कुत्रापि, यन्मे राज्ये न विद्यते ? ॥१६॥ ततः प्राह कलाविज्ञः, कोऽपि देशान्तरी नरः । हर्षोत्फुल्लमुखाम्भोजः, प्राप्यावसरमुच्चकैः ॥१७॥ प्रान्तोऽस्मि बहुरत्नायां, पृथिव्यां सुचिरं परम् । त्वत्समो न मया दृष्टः, श्रीविद्यावेणिसङ्गमः ॥१८॥पाताले वासुकिर्देव!, दिवि शक्र उभाविमौ । अदृष्टावपि मन्येते, पृथिवीन्द्र! तव श्रिया॥१९ ॥महतामवधि: स्वामिन् ! गगनं कथ्यते बुधैः । तत्राप्येकः कलावांस्ते', त्वद्राज्ये तु सहस्रशः॥२०॥ अवस्त्वेव हि तद्वस्तु, निष्कला सा कला विभो !। अज्ञानं तच्च विज्ञानं, यन्निलीनं नहि त्वयि ॥२१॥ यशःसंभारसुराभिर्विक्रमाक्रान्तभूतलः । ॐकार इव वर्णानां, त्वं राज्ञां धुरि सम्प्रति ॥ २२ ॥ वाचस्पतिमतिर्मन्त्री, तवाऽऽज्ञाजीविता जनाः । सहर्षप्रणताः सर्वे, प्रधाना मण्डलेश्वराः ॥ २३ ॥ सहन्ते द्विषतां वीरा, न गन्धं गन्धहस्तिवत् । अनङ्गभरभुग्नाङ्गचङ्गोऽयं कामिनीजनः ॥ २४ ॥ अस्ति कौतुकचित्रेन्द्रजालाद्यन्यदपि प्रभो!। परकायप्रवेशाख्यां, किन्तु विद्या न विद्यते ॥ २५॥ ससम्भ्रमं नृपः प्राह, कुत्राऽऽस्तेऽसौ बदाऽऽशु मे। सोऽप्याह श्रीगिरी देव! सिद्धेश्वरनरान्तिके ॥ २६ ॥ विसृज्याथ १कलावान्-सोमः।