SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥२॥ भूषायै, गुणा बाधाकरा अपि । कथ्यते तत्फलं साक्षाल्लोकेऽपि तव सम्मते॥५॥ तथाहि-विनयादेव सौभाग्यं, भाग्यं विद्यार्थसम्पदः । लोकद्वयसुखस्यापि, भाजनं विनयानरः॥६॥ध्रुवं नम्रतया लोके, गुरुत्वं लभते नरः । छन्दोवर्ण इव स्तब्धेः पुनर्लघुरिति प्रथाम् ॥७॥ यथा यथा प्रकृष्टानां, पात्रं भवति सम्पदाम् । शाखीव फलभारेण, नम्रः साधुस्तथा तथा ॥ ८॥ सुवंशसम्भव: कोटिलाभयुक्तोऽपि कोविदः । कोदण्ड इव नम्रत्वादात्मन्यारोपयेद् गुणम्॥९॥ श्रूयते विनये याऽद्य विक्रमस्य कथा किल । लोकेऽपि विनयस्याङ्गमिति सैव निगद्यते ॥१०॥ तथाहि प्रथमा; विनयोपरि विक्रमकथा। भरतेऽवन्तिदेशेऽस्ति, नानादेशान्तराऽऽगतैः । नरैर्रनैश्च रोचिष्णुरवन्तिनामतः पुरी ॥११॥ अद्वैतविक्रमोप्युच्च-स्त्रि'विक्रमकलां दधत् । तत्रोदारचरित्रोऽभूद्, विक्रमो नाम भूपतिः ॥ १२ ॥ विसृष्टार्थोऽपि यः श्रीमान्, शक्तियुक्तोऽपि यः क्षमी। दधानोऽपि सदौनत्यं, पूज्येषु विनतो भृशम्॥१३ ॥ओजः प्रसादमाधुर्य-सौकुमार्यादिसद्गुणा। सुकवेः कवितेवास्य, प्रियाऽऽसीत् कमलावती॥१४ १ विष्णुत्रिविक्रमः। ॥२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy