________________
श्री कलावती चरित्रम्।
मूर्धवाहारयं. एवं व्रतविराधनां विधाय; पर्यन्ते चाऽनालोच्य विपद्याऽत्रैव काननेऽहं शुकराजोऽभवं; प्राग्भवाभ्यसितविद्यावशादमुष्मिन् तिर्यग्भवेऽप्यहं पण्डितसमो जातोऽस्मि; अतः परमहमेनां श्रीसीमंधरप्रतिमां नत्वैव सर्वदा भोजनं करिष्ये, इति स शुको निजमनसाभिग्रहं जग्राह; ततः सा सुलोचनापि तीर्थेशं नत्वा, भक्तितश्चाऽभ्यर्च्य संपञ्जरं तं शुकमादायनिजमनदिरे संखीयुता समायाता; अथ द्वितीयदिने सा राजकन्या तं शुकं पञ्जराद् बहिनिष्कास्य निजकरे धृत्वा यावद्धोक्तुमुपविष्टा तावत्स शुको निजनियमं सस्मार; ततोऽसौ नमो अरिहंताणं इत्युक्त्वा नभोध्वनोड्डीय तीर्थेशं नन्तुं जगाम, तत्र प्रभुं नत्वा स निरवद्यपत्रपुष्पफलाहारैरात्मपोषणं कुर्वन् विजहार; इतस्तस्य शुकस्य विरहात् सा राजकन्या विलापं कर्तु लग्ना, तदा राजभृत्यास्तं शुकं पुनर्ग्रहीतुमभितो धाविताः; छन्नपदपाताश्च ते राजपुरुषाः शाखिशाखानिविष्टं तं शुकं पाशेन बद्ध्वा सुलोचनाऽग्रे समागत्य तस्यै समर्पयामासुः; हृष्टा सा सुलोचना तं शुकं निजकरे समादाय मिष्टवचनैः कथयायास, भो शुकराज ! जननीतुल्यां मां त्यक्त्वा त्वं कथं पलायितः ? अतः परं तव विश्वासं न करिष्यामि, इति वदन्ती सा गतिभङ्गाय तस्य शुकस्य द्वावपि पक्षौ चिच्छेद; ततश्च सा तं पञ्जरे चिक्षेप; अथ स शुको निजमनसि चिन्तयामास, धिग्मे पराधिनतां! पूर्वस्मिन् भवे मया साधुक्रिया सम्यग् नाराधिता, तेनात्राहमेवंविधां प्रभुदर्शनविरहरूपां
॥१६॥