________________
श्रीजैन कथासंग्रहः
श्री कलावती चरित्रम्।
॥१५॥
सकलगुणगणालङ्कृता लीलावत्यभिधाना राज्ञी बभूवं; अन्यदा तया राज्या सुलक्षणा पुत्री प्रसूता; राज्ञा महोत्सवपूर्वकं तस्याः सुलोचनेति नाम विहितं; क्रमेण यौवनं प्राप्ता सा माता पित्रो: परमप्रेमपात्रं जाता; अथैकदा सभास्थितस्य तस्य राज्ञः केनाप्येकः कीर उपदीकृतः स पाठितः कीरो नृपायाशीर्वाद ददौ, यथा-स्फुरद्वरितमोध्वंसी। राज्यतेजोऽभिवर्धकः ॥ भाति प्रतापभानुस्ते । राजन् विश्वावभासकः ॥१॥ तत् श्रुत्वा प्रीतेन राज्ञा तस्मै नराय बहुद्रव्यदानं दत्त्वा स कीरोत्तमो निजपुत्र्यै सुलोचनायै दत्तः, हृष्टा सुलोचनापितं कीरं स्वर्णपञ्जरे रक्षयामास, सर्वदा च दाडिमद्राक्षादिस्वादुफलैः प्रमोदभरेण सातं कीरं पोषयामास; मुहुर्मुहुश्शतं कीरं करस्थं हृदयस्थमकस्थं च पंजरस्थं विधाय बहूनि सूक्तानि पाठयन्ती सा स्वात्मानं विनोदयति स्म; भोजनादिसमयेऽपि सातं कीरं निजपायें एव स्थापयति एवं सा मनागपि तस्य विरहं न सहते, अर्थकदा सा सुलोचना निजसखीगणोपेता तं शुकं समादाय वनमध्ये क्रिडार्थ ययौ; तत्र श्रीसीमंधरप्रासादे श्रीवीतरागप्रभुप्रतिमां दृष्ट्वा स शुको निजहृदीत्यचिन्तयत्, अहो ! एवंविधं जिनबिम्वं मया पूर्व क्वापि दृष्टमस्ति, इति चिन्तयन् स तदैव जातिस्मरणज्ञानं प्राप; तेन स निजं पूर्वभवं सस्मार, यथा पूर्वभवे मया चारित्रं गृहीतं, तत्र च-अध्यैषि सर्वशास्त्राणि । क्षयोपशमतस्ततः ॥ क्रिया पुनः कृता नैव । पठनैकधिया मया ॥१॥ किञ्च वस्त्रपुस्तकपात्रादिमूर्छितोऽहं सर्वमपि शास्त्रज्ञानं
॥१५॥