________________
श्रीजेन कथासंग्रहः
श्री कलावती चरित्रम्।
॥१४॥
राजा तां निजप्रियां प्रति प्राह-निर्दोषापि तथा भद्रे । यन्मया त्वं विडम्बिता॥ मोचिताच वने तन्मे। क्षम्यतां देवि दुष्कृत॥१॥ तत् श्रुत्वा कलावती जगौ, हे स्वामिन् ! एतद्विषये न भवतां किमपि दूषणं, मम कर्मणामेव दोषोऽस्ति, यत:-सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति मतिभ्रमोऽयं ॥ पुराकृतं कर्म तदेव भुज्यते । शरीरहेतोस्त्वरया च यत्कृतं ॥१॥ यजमयदेहास्ते । शलाकापुरुषा अपि ॥नमुच्यन्ते विना भोगं । स्वनिकाचितकर्मणः ॥२॥ एवं तयाऽऽश्वासितः शंखराजा हृष्टः सन् पूर्ववत् तया सह रममाणः सुखेन राज्यं करोति स्म, ततस्तस्याः कलावत्याः पुत्रस्य जन्ममहोत्सवं विधाय स्वप्नाऽनुसारेण राज्ञा पुष्पकलश इत्यभिधानं चक्रे; अवैकदा कलावत्या निजस्वामिने पृष्टं, हे स्वामिन् ! त्वयाहं केन दोषेण वनमध्ये त्याजिता, तत् श्रुत्वा सलजो राजा निखिलं तद्वृत्तान्तं जगी; तदनन्तरं राज्ञा तस्मै प्रोक्तं, हे प्रिये ! अधुनाऽत्रोद्यानेऽमिततेजोऽभिधो ज्ञानी मुनिः समागतोऽस्ति, तस्य पार्थे गत्वा तव प्राग्भवस्वरूपं पृच्छयते, इत्युक्त्वा तया कलावत्या सहितो राजा मुनेर्वन्दनार्थ नगरोद्याने ययौतत्र तं महामुनि नत्वा धर्मोपदेशश्रवणाऽनन्तरं राजा पप्रच्छ, हे भगवन् ! अनया कलावत्या पूर्वभवे किं दुष्कर्म कृतं ? येन मया तस्या निर्दोषाया अपि भुजौ छेदितौ ! तत् श्रुत्वा मुनिराह श्रीमद्विदेहोव्या श्रीमहेन्द्राख्यं पुरं वर्तते, तत्र नरविक्रमाभिधो राजा राज्यं करोति स्म, तस्य
॥१४॥