________________
श्रीजैन कथासंग्रहः
श्री कलावती चरित्रम्।
॥१३॥
किं प्रयोजनमस्ति ? दत्तेनोक्तं सा शंखनृपस्य राज्ञी वर्तते, तस्या विरहेण च राजा निजदेहत्यागायोद्यतो जातोऽस्ति; तदा तेन तापसकुमारेणोक्तं, भो भद्र ! कतिचिद्दिनेभ्यः प्रागत्रैका सपुत्रा महिला समायातास्ति, यदि ते प्रयोजनं तदाऽश्रममध्ये गत्वा विलोकय; इति तेन प्रोक्तो दत्त आश्रममध्ये ययौ, तदा दूरादेव तं दत्तं वणिजमागच्छन्तं विलोक्य जाग्रच्छोका सा कलावती विविधविलापे रुदनं कर्तुं लग्ना; दत्तः प्राह स्वसंस्त्वंमारोदी: कर्मफलं ह्यदः॥ अभुक्त्वा प्राग्भवोपात्तं । नमुच्यन्ते जिना अपि॥१॥ तद्विवेकिनि धीरत्व-माधाय रथमारोह ॥ स्वदर्शनसुधावृष्ट्या । नृपमावासय द्रुतं ॥ २॥ पश्चात्तापपरो भूत्वा । वह्निमहाय स विशन् । दिनमद्यतनं कष्टात् । स्थापितोऽस्ति नरेश्वरः ॥३॥ तत् श्रुत्वा सा कुलीना कलावती निजमानमुन्मुच्य निजभर्तुः प्रति कारुण्यं विधाय निजस्वामिपाधैं गन्तुं कुलपतिमापप्रच्छ; तदा परमकारुण्यवता तस्याश्च हितमिच्छता तेन कुलपतिनाऽऽशीर्वादपूर्वकं प्रहिता सा कलावती सान्गजा रथाऽऽरुढा दत्तेन सह ततश्चलितुं प्रवृत्ता; तदा तेन कुलपतिनाऽपि तस्यै शिक्षा दत्ता, यथा-शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने। भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ॥ भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी। यान्त्येवं गृहिणीपदं युवतयो वामा: कुलस्याधयः ॥१॥ इत्यादिलब्धशिक्षा सा तं कुलपतिं विनयेन नत्वा ततश्चचाल, ततः पुरः समीपे तेन दत्तेन सह समागतां तां निजप्रियां कलावर्ती निरीक्ष्यातीव हृष्टः शंखनृपो महोत्सवपुरस्सरं नगरमध्ये प्रवेशयामास; ततो
॥१३॥