________________
श्रीजैन कथासंग्रहः
॥१२॥
स्थितस्य श्री अमिततेजोऽभिधमुनिवरस्य पार्श्वे वन्दनार्थं गतः, मुनिनापि तं योग्यं विज्ञाय धर्मोपदेशो दत्त:, यथा-जीवाः संसारकान्तारे । पूर्वकर्मवशेरिताः मृगा इव सदा मुग्धा । भ्राम्यन्ति मोहिता ध्रुवं ॥१॥ सुखं सुखमिति भ्रान्त्या । गता दुःखं पदे पदे ।। जीवाः क्लिश्यन्ति संसारे । वातोद्धूतपलाशवत् ॥ २ ॥ कल्पद्रुमिव संप्राप्य । दुर्लभं मानुषं भव । जैनो धर्मः सदा सेव्यः । परत्रेह च शर्मदः ।। ३ ।। एवंविधां धर्मदेशनां मुनिमुखान्निशम्य किञ्चिद् व्यपगतशोकः स नृपो निशायामपि तत्रैवोपाश्रये शेते स्म, ततो निशान्ते स चेत्थं स्वप्नमलोकत-अपक्कैकफला वल्लिः । पतिता कल्पपादपात् ॥ आरुरोह पुनः पूर्ण- फला सा तत्र तत्क्षणं ॥ १ ॥ एवं स्वप्नदर्शनानन्तरं जागरितो नृपो गुरुं प्रणम्य तत्स्वप्नार्थं पप्रच्छ; गुरुराह, हे राजन् ! स स्वप्नस्तव शुभफलदायको भविष्यति, कल्पवृक्षसमानाद्भवतः पार्श्वाद्वियोगं प्राप्ता कल्पवल्लीतुल्या सा कलावती राज्ञी, पुनः 'सपदि सपुत्रा त्वां मिलिष्यति; तत् श्रुत्वा हृष्टः स नृपो निजावासे समायातः, कलावत्या राज्ञ्या गवेषणार्थं च वनमध्ये निजभृत्यान् प्रेषयामास; भूपप्रेषितः स दत्तवणिगपि वनाद्वनं परिभ्रमन्नेकदा दैवयोगात्तमेव तापसाश्रममद्राक्षीत्; तत्र गत्वा स दत्तस्तापसकुमारमेकं कलावत्या वृत्तान्तं पप्रच्छ; तत् श्रुत्वा स तापसकुमारो दत्तं प्राह, हे भद्र ! तस्यास्तव
१ सपदि = शीघ्रम् ।
ကာတို့
श्री कलावती चरित्रम् ।
॥१२॥