SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्री कलावती चरित्रम् । यामि किमुवा वच्मि । क विशामि करोमि किं॥ आत्मनैव मयामन्त्मासौ। हन्त कष्टे निपातितः॥३॥ अरेरे! तस्यां निर्दोषायामपि मया दोषसम्भावना कृता! अविचार्यव साहसं विधाय मयैतदकार्यमाचरितं, यत:-सगुणमपगुणं वा कुर्वता कार्यमादौ । परिणतिरवधार्या यत्नतः पण्डितेन ॥ अतिरभसकृतानां कर्मणामाविपत्ते-भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥ अरेरे ! मया मौढ्येन निर्दोषापि प्रिया त्यक्ता, तस्या भुजावपि छेदिती, अथाहं जनानां पुरः स्वास्यं कथं दर्शयिष्ये ? अतोऽहं बहिज्वलच्चितायामात्मघातमेव करिष्यामि; तत् श्रुत्वाऽमात्यादयः प्रोचुः, हे स्वामिन् ! अथ पश्चात्तापेनालं, यतः-एका तावन्मृता देवी । केनापि निजकर्मणा ॥ अथात्महत्यां कर्तुं च । नोचिता सर्वथा तव॥१॥अतो भो विवेकिन् ! त्वमात्महत्याकदा-ग्रहं मुञ्च ! यतः- जीवन् भद्राण्यवाप्नोति । जीवन् पुण्यं करोति च ॥ मृतस्य देहनाशः ल्या-धर्माधुपरमस्तथा ॥१॥ पौरामात्यादीना - मित्यादियुक्तियुक्तवचांस्यप्यनादृत्य मोहमूढोऽयं शंखनृप आत्मघातार्थ वेगादरण्ये गन्तुं लग्नः, तदा स समयज्ञो दत्तो वणिक् कालक्षेपविधानार्थ मधुराक्षरस्तं शंखधरणीधवं प्राह, हे स्वामिन् ! प्रथमं यूयं जिनेश्वखभोः पूजां कुरुत यथा युष्माकं सर्वा आपदः स्वयमेव विलयं यास्यन्ति. एवंविधानि दत्तवचनानि स्वीकृत्य स शहराजा प्रथमं श्रीतीर्थक्कर पूजयितुं जिनप्रासादे गतः, तत्र प्रभुप्रतिमा पूजयित्वोपाश्रये तमेव कारमा जनानां पु. ॥ अरे ! मया जोन ॥ अतिरभसकतरित ॥११॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy