SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१७॥ पराधीनतां प्राप्तोऽस्मि; अथैवं पराधीनोऽहं तिर्यक्त्वेऽपि निजाऽऽत्महितं करोमि, इति विचिन्त्य तदादितोऽसावनशनं चकार; सुलोचनया मिष्टवचनादिभिर्बहूल्लापितोऽपि स मनागप्याहारपानीयं न जग्राह; कतिचिद्दिनान्तरे स शुको मृत्वा शुभध्यानात्सौधर्मे देवलोकें महर्धिकः सुरोऽभूत्, सुलोचना तस्य विरहदुःखादनशनपूर्वकं मृत्वा सौधर्मदेवलोके तस्यैव देवस्य प्रेमपात्रं देवीरूपा प्रियभूत्; तत्र च ताभ्यां दम्पतीभ्यां भूरिसौख्यमनुभूतं; अथ स शुकजीवो देव आयुः क्षये ततश्च्युत्वा हे राजन् ! त्वं शंखनामा भूपो जातः, सुलोचनाजीवश्च ततश्च्युत्त्रैषा तव प्रिया कलावत्यभवत्; प्राग्भवे कलावत्या तस्य शुकस्य यत्पक्षौ छिन्नौ, तत्कर्मणो विपाकेनात्र भवे त्वया तस्या हस्तौ छेदितौ यतः - सर्वस्य कर्मणोऽवश्यं । शुभस्याप्यशुभस्य वा । एकधा बहुधा चैव विपाकः परिपच्यते ।। १ ।। एवं 1. जपूर्वभववृत्तान्तं श्रुत्वा तौ दम्पती अपि जातिस्मरणज्ञानमवापतुः; ततश्च स शंखराजा निजपुत्रं पुष्पकलशं राज्ये संस्थाप्य वैराग्यतः कलावत्या सह चारित्रं जग्राह; शुद्धं चारित्रं पालयित्वा तौ द्वावपि निजायुःक्षये स्वर्गं गतौ; ततश्च्युत्वा च मनुष्यभवं प्राप्य लब्धचारित्रौ केवलज्ञानमवाप्य मुक्तिं गमिष्यतः ॥ इति श्रीकलावतीमहासतीचरित्रं समाप्तं ॥ श्रीरस्तु ॥ इति श्रीकलावतीचरित्रं समाप्तम् । श्री कलावती चरित्रम् । ॥१७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy