SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री कलावती चरित्रम्। भवत्याः साङ्गदो भुजौ छेत्तुमावाभ्यामादेशो दत्तोऽस्ति; एवंविधानि मातङ्गवचनानि श्रुत्वा कलावती प्रोवाच; भो मातंगौ ! अत्र विषये युवयों: पत्युश्चापि न किञ्चिद् दूषणं, मम कर्मणामेव दूषणं; ततस्तौ मातङ्गौ दयाहृदयावपि नृपादेशभीतौ तस्याः साङ्गदौ भुजौ छेदयामासतुः; ततस्तौ मातंगौ तस्यास्ती साङ्गदी भुजौ समादायाश्रुपूर्णनयनौ निजपुरं प्रति गतौ; इतोऽनन्तरं सा कलावती तत्रारण्ये शुभलक्षणोपेतं पुत्रमसूत; तदा सा कलावती तं पुत्रं प्रत्याह, भो वत्स ! यदि तव जन्म पितुर्गेहेऽभविष्यत्, तदास्मिन्नवसरेऽनेकवाद्यनादपुरस्सरं तव पिता जन्मोत्सवमकरिष्यत्, अत्र तु शृगालादीनां कटुकारावस्ते जन्मोत्सवो जायमानोऽस्ति; ततो हस्तरहिता सा पञ्चपरमेष्ठिनमस्कारं स्मृत्वा प्राह, भो शासनदेवते ! यदि मया त्रिकरणशुद्धया पतिव्रताधर्मः पालितो भवेत्, निर्मल शीलं च रक्षितं भवेत्, तदा मदीयौ भुजौ पुनर्नवौ भवतां इति वचनानन्तरमेव शीलप्रभावेण तस्या भुजौ पुनः साङ्गदौ नवौ जातो, अत्रान्तरे कश्चित्तापसस्तत्राभ्येत्य तां प्राह, भो वत्से! प्रसूतवत्या भवत्या साम्प्रतमत्र स्थातुं न युज्यते। तत् श्रुत्वा तया प्रोक्तं, भो तापसोत्तम ! देवगुरुप्रसादान्मदीयशीलप्रभावाच्च न कोऽपि मां पराभवितुं समर्थो भविष्यति; ततस्तेन कुलपतिना तापसेन भृशमाश्वासिता पृष्टा च सा सकलं निजवृत्तान्तं कथयामास; तदाकर्ण्य स तापसाधिपतिः प्राह, हे भद्रे ! अथ त्वं वृथा खेदं मा कुरु । शीलप्रभावात्तव पुनः श्रेयांसि ॥९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy