SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ዘረ १ ॥ अहो बुद्धिमद्भिर्जनैः स्त्रीणां विश्वासो नैव कर्तव्यः, यतः - दुरितवनघनाली शोककासारपाली । भवकमलमराली पापतोयप्रणाली ।। विकटकपटपेटी मोहभूपालचेटी । विषयविषभूजङ्गी दुःखसारा कृशाङ्गी ॥ १ ॥ अनृतं साहसं माया । मूर्खत्वमतिलोभता ।। निःस्नेहत्वनिर्दयत्वे । स्त्रीणां दोषाः स्वभावजाः ॥ २ ॥ आहारो द्विगुणः स्त्रीणां । निद्रा तासां चतुर्गुणा ॥ षड्गुणो व्यवसायश्च । कामश्चाष्टगुणः स्मृतिः ॥ ३ ॥ दर्शने हरते चित्तं । स्पर्शने हरते बलं । संगमे हरते वीर्यं । नारी प्रत्यक्ष राक्षसी ॥ ४ ॥ यो मूर्ध्नि विधृतः कुम्भः । पाशस्तस्यापि योषिता ॥ विधीयते कण्ठपीठे । जलार्थं हि मृगीदृशा ।। ५ । जल्पति सार्धमन्येन । पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चिन्तयन्त्यन्यं । प्रियः को नाम योषितां ? ॥ ६ ॥ एवंविधान्नारीदोषानेव विभावयन् स शंखराजा तां महासतीमपि कलावर्ती त्यक्तुं निजमानसेऽचेतयत्, एवं चिन्तयन् स निजस्थाने समायातः; इतस्तस्या महासत्या अपि कलावत्या दुःखागमनं विलोक्य तद् दृष्टुमसहमान इव सूर्योऽप्यस्तं गतः; अथ परमार्थमजानता तेन क्रोधातुरेण प्रच्छन्नं मातङ्गयुगलमाकार्य प्रोक्तं भवद्भ्यामियं कलावती वने त्याज्या, साङ्गदं तस्या हस्तयुगलं च छित्त्वाऽत्रागत्य मह्यं समर्पणीयं; अथ नृपादिष्टौ तौ मातङ्गौ तां निर्दोषामपि कलावर्ती वने निन्यतुः; ततस्ताभ्यां तस्यै कलावत्य प्रोक्तं, हे देवि ! आवाभ्यां सम्यग् न ज्ञायते, यत्केन दोषेण राजा त्वां त्याजयति, किञ्च तेन श्री कलावती चरित्रम् । ዘረዘ
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy