________________
श्रीजैन कथासंग्रहः
श्री कलावती चरित्रम्।
॥७॥
तत् श्रुत्वा हृष्टो भूपस्तां प्राह, हे प्रिये ! तव सकलगुणगणालङ्कृतस्तनयो भविष्यति; एवं शुभं गर्भ दधत्यास्तस्या अष्टमासी व्यतिक्रान्ता, अथ महिलायाः प्रथमा प्रसूतिः पितृगेहे भवतीति लोकनीत्या विजयसेनभूपस्तां सगर्भा निजतनयामाकारयितुं निजभृत्यान् प्रेषयामास; जयसेनः कुमारोऽपि स्नेहतस्तेषां भृत्यानां हस्तैर्निजभगिन्यै उपहारपदे सांशुकामङ्गदद्वयीमप्रेषयत्; अथ तवागतास्ते भृत्याः कुशलोदन्तनिवेदनपूर्वकं जयसेनबन्धुदत्तं सांशुकमङ्गदद्वयं कलावत्यै दुः; ततस्ते नृपपार्श्व गत्वा कलावतीप्रेषणार्थ विज्ञप्तिं चक्रुः, परं राज्ञा सा न प्रेषिता, ततस्ते पश्चालित्वा निजनगरे समेत्य विजयसेनभूपाय तं वृत्तान्तं निवेदयामासुः; अथ सा कलावती स्नेहभरेण स्व बंधुना प्रेषितमंगदद्वयंनिजहस्तयोः परिधाय प्रमोदभरमेदुरा गवाक्षस्था निजसखीभ्यः कश्चयामास-अहो ! येनेदमद्भुतं केयरद्वन्द्वं प्रेषितं तस्य मयि अतीबोत्कृष्टं प्रेम विलोक्यते, स सर्वदा चिरायुरेव भवतु, प्रेम्णा प्रेषितं तेनेदं सुन्दरं वस्तु मया चिरकालात्प्राप्तं, तत्प्राप्तितश्चेदं मे जन्म सफलं मन्ये; एवंविधानि कलावत्या वचनानि श्रुत्वा सख्योऽप्यूचुः, हे सखि! कुमुद्वत्यां चन्द्रइव स त्वयि नूनं भुरिस्नेहं धारयति; अथ तासामेवंविधं वार्तालापं गवाक्षाधस्ताद् व्रजन् स शंखराजाऽशृणोत्; तदा समुत्पन्नाधिकक्रोधः स नृपतिर्दथ्यौ-एवंविधं कलावत्यां। यथाऽकृत्यं प्रजायते ॥ तदा विधोः समुत्पन्नागारवृष्टिरहो ध्रुवं ॥
॥७॥