________________
श्रीजैन
श्री कलावती चरित्रम् ।
कथासंग्रहः
॥६॥
कलावती निजहदि संतोषं न प्राप; एवं चलन्ती क्रमेण सख्यनुगता सा शंखनृपपा समेत्य प्रतीहारीमुखात् तं तत्प्रनचतुष्टयं पप्रच्छ; तत् श्रुत्वा स शंखभूपालः प्राह, भो प्रतीहारि! इयं निर्जीवापि स्तम्भस्था पाञ्चाली मदीयपाणिस्पृष्टा त्वदीयसख्याः प्रश्नचतुष्टयसमस्यां पूरयिष्यति; इत्युक्त्वा तेन स्वपाणिना स्पृष्टा सा निर्जीवापि काष्ठपाञ्चाली बाग्देवीमाहात्म्यतः प्रोवाच-वीतरागः परो देवो। महाव्रतपरो गुरुः ॥ तत्त्वं जीवदया ज्ञेया। सत्त्वं चेन्द्रियनिग्रहः ॥१॥ तत् श्रुत्वा सन्तुष्टमानसा सा कलावती तत्कालमेव तस्य श्रीशंखभूभर्तुः कण्ठे बरमालां चिक्षेप; ततस्तस्याः कलावत्याः शीलप्रभावान्महौजसस्ते सर्वे सामर्षा अपि भूपालास्तं शंखभूपं न पराभवितुमशक्नुवन्; ततो मातापितृभ्यां महोत्सवपूर्वकं तेन शंखभूपेन सह तस्या निजतनयायाः कलावत्या विवाहो विहितः, हस्तमोचनावसरे च विजयसेनभूपेन तस्मै निजजामात्रे भूरिहस्तिहयादि द्रव्यं दत्तं; ततः कियदिनानन्तरं वशुरवर्गमुत्कलाप्य स शंखनृपः कलावत्या युतो निजनगरं प्रति प्रतस्थे; विजयसेनभूपादेशात्स दत्तवणिगपि कलावत्या सहैव चचाल; ततश्चैकस्यन्दने समारूढी तौ दम्पती महोत्सवेन पुरमध्ये प्रविष्टौ, एवं तथा कलावत्या समं विषयसुखान्यनुभवन् स भूपो भूयांसमनेहसं गमयामास; अर्थकदा रात्री स्वप्नमध्ये सा कलावतीराज्ञी पीयूषपूर्ण कुम्भ दृष्ट्वा जागरिता तत्स्वप्नवृत्तान्तं निजभत्रे कथयामास;
8.
॥६॥