SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥५॥ कलावती सेयं । पत्नी तव भविष्यति ॥ १ ॥ परमाराध्यतां देव । वागीश्वरी सुरी यथा ॥ प्रश्नचतुष्टयस्याश्र । निर्णयो ज्ञायते त्वया ॥ २ ॥ ततः स श्रीशंखभूपालो ब्रह्मचर्ययुतोऽष्टमतपसा वाग्देवतां सन्तोषयामास; तेन तुष्टा सा प्रत्यक्षीभूय नृपं प्रत्युवाच भूप ते पाणिस्पृष्टाथ । शालभञ्ज्येव तत्क्षणं ।। कर्त्री कलावतीप्रोक्त- प्रश्नानां ध्रुवमुत्तरं ॥ १ ॥ देव्यैवमुक्तः स शंखभूपालस्तां ननाम; ततः सा वाग्देव्यपि तिरोदधे; एवं कृतकृत्यः स भूपो हृष्टस्तेन दत्तेन वणिजा सह सत्वरं देवशालपुरं प्रति प्रतस्थे अथ तं शंखभूपमागच्छतं श्रुत्वा हृष्टो विजयसेनभूपोऽपि निजपुत्रं जयसेनं तत्सन्मुखं प्रेषीत्; ततो विजयसेनभूपेन महोत्सवपूर्वकं नगरमध्ये तस्य प्रवेशः कारितः; इतस्तत्र स्वयंवरमण्डपेऽन्येऽपि बहवो भूपालाः कलावत्याः पाणिग्रहणाभिलाषया समायाताः, विजयसेनभूपेन सत्कृता मण्डपमध्ये च यथास्थानं मञ्चेषु समुपविष्टाः; गगनमण्डले तारकेषु चन्द्र इव तत्र मण्डपे स्थितेषु स शंखभूपस्तेजसाऽधिकं विराजते स्म; ततः सा कलावती सखीवृन्दपरिवृता शिरसि ध्रियमाणातपत्रा सुखासनस्था तत्र मण्डपे समाययौ; ततः सा प्रतीहारीमुखात् पृथग् पृथग् समस्याचतुष्टयं नृपाणां पप्रच्छ; प्रतीहारी प्राह को देवः (१) को गुरुः (२) किञ्च । तत्त्वं (३) सत्त्वं (४) च कीदृशं ॥ स्फुटीकर्तार्हति स्पष्टं । कलावत्या वरस्रजं ॥ १ ॥ तत् प्रश्नचतुष्टयं श्रुत्वा ते सर्वेऽपि भूपाला निजनिजप्रज्ञानुसारेण विविधोत्तराणि ददुः परं परमातीसा श्री कलावती चरित्रम् । ॥५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy