SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कबासंग्रहः श्री कलावती चरित्रम्। ॥३॥ 43 विकलयति कलाकुशलं । हसति शुचिं पण्डितं विडम्बयति ॥ अधरयति धीरपुरुषं । क्षणेन मकरध्वजो देवः॥१॥कुकुमपककलकितदेहा। गौरपयोधर कम्पिनहारा॥ नूपुरहंसरणत्पदपद्या। कंन वशं कुरुते भुवि रामा॥२॥ तावदेवाकृतिनामपि स्फुर-त्येष निर्मलविवेकदीपकः॥ यावदन न कुरङ्गचक्षुषा । ताब्यते चटुललोचनाञ्चलैः॥३॥ मदिराया गुणज्येष्टा । लोकद्वयविरोधिनी ॥ कुरुते दृष्टिमात्रेण। महिला हिलं नरं ॥ ४॥ एवं कामग्रहिलः स नृपस्तं दत्तं पप्रच्छ, भो दत्त ! किमियं चित्रगता कापि देवाशना वा मानुषी ललना विद्यते? तत् श्रुत्वा स दत्तः सस्मेरं प्राह स्वामिन् ! इयं मानुष्येव वर्तते तत् श्रुत्वा भृशमुत्सुको राजा स्माह, भो दत्त ! तर्हि कस्य भाग्यवतोऽयं पुत्री ? कुमारी वा परिणीता ? तं वृत्तान्तं मे दुतं निवेदय दत्तः प्राह स्वामिन्नियं देवशालपुरेशस्य विजयसेनभूपस्य श्रीमत्यभिधाया राज्या: कुक्षिसम्भवा कलावत्याख्या कुमारिका वर्तते; साच निजरूपलावण्यादिगुणैर्देवानामपिपराजयते; विधातुराद्या सृष्टिरिव सर्वेषां पुरुषाणां मनो हरति, किञ्च सकलकलाकुशला सा साम्प्रतं बाल्यभावमुल्लङ्घ्य यौवनं प्राप्तास्ति; अथ णां यौवनोपेतां विवाहयोग्यां निजपुत्री विलोक्य तस्या मातापितरौ तदरविलोकनचिन्तासागरे निमग्नौ; अथान्यदा तया कलावत्या निजमातुरने प्रोक्तं, यो मे प्रश्नचतुष्टयी सम्यगुत्तरः पूरयिष्यति, तमेवाहं परिणेच्यामि; तत् श्रुत्वा तया राज्यापि स वृत्तान्तो नृपतये
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy