SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री कलावती चरित्रम्। ॥२॥ दत्तोऽवदत, हे स्वामिन् ! बाणिज्या देवशालपुरेव्हंगतोऽ व्यापारिणः सर्वदा लक्ष्मीलाभार्थ देशान्तरे एव प्रमन्ति। यत:-यो न निर्गत्य निःशेषा-मालोकयति मेदिनी। अनेकाशर्यसंपूर्णा स नरः कूपदर्दुरः ॥१॥ किव केवलं लक्ष्म्यर्जनकपरा वयं तत्र देशान्तरे न्यायान्यायविचारमपिन कुर्मः यतः-अपलपति रहसि दत्तं । प्रत्ययदत्तेऽपि संशयं कुरुते॥ क्रयविक्रयेच लुण्टति । तथापि लोके वणिक् साधुः॥१॥ मानेन किचित्तुलयापि किञ्चि-दानेन किञ्चिद् ग्रहणेन किन्चित् ॥ किंन्विच किंचिच्च समाहरन्ति। प्रत्यक्षचौरा वणिजो भवन्ति ॥ २॥ श्रुत्वा दुर्वाक्यमुच्चैहसति मुषति च स्वीयमाप्यं च लोकं । व्यर्थ गृहाति पण्यं बहु किमिति वदनर्धमेव प्रदत्ते॥ स्वीयान्यायेऽपि पूर्व व्रजति नृपगृहं लेखके कूटकारी। मध्ये सिंहप्रतापः प्रकटमृगमुखः स्यादणिक भूर्तराजः ॥ ३॥ एवं लक्ष्मीवृदण्य व्यापारं कुर्वता मया तत्र यत्कौतुकं दृष्ट, तस्य स्वरूपं कथयितुं मे जिहया न पार्यतेत्र इति बदता तेन दत्तवणिजा नृपाने एकश्चित्रपटो घृतः; अथ तत्र चित्रपटे समालेखितं कस्याश्चिन्मनोहराया ललनाया: स्वरूपं विलोक्य स नृपपुरन्दरो मदनबाणविद्ध इव निजं शिरो भुन्वंतसि चमत्कृत इति चिन्तयामास, अहो नूनमियं ललना कापि देवाङ्गनेव दृश्यते, अस्या रूपनिरूपणपीयषपानतो मे नेत्रे कथमपि तर्मि न गच्छतः, केनापि भाग्यवतैव पूरुषेणेयमालिगिता भविष्यति इति चिन्तयन् स कामविहलो जातः, यत: ॥२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy