________________
बीजैन.
कथासंग्रहः
श्री कलावती चरित्रम्।
॥१॥
॥अहम् ।। श्री शंखेश्वर पार्श्वनाथाय नमः । ॥श्री प्रेम-भुवनभानु-पत्र-हेमचंद्र-सद्गुरुभ्यो नमः ॥ श्रीकलावतीचरित्रम्
(कर्ता-श्रीशुभशीलगणी) पालयन्ति निजं शीलं । शुद्धं या ललना भुवि॥ कलावतीव ताः सौख्यं । प्राप्नुवन्त्यपवर्गदं ॥१॥ तथाहि-इहैव जम्बूद्वीपे मंगलाख्यदेशविभूषणे शंखपुराभिधे नगरे प्रज्ञावान् लक्ष्मीयुतः शंखाभिधो राजा राज्यं करोति स्म । अथैकदा स राजा निजसभायां सिंहासनमलञ्चकार । तदा गजाभिधश्रेष्ठिनो दत्ताख्यस्तनयस्तत्रागत्य मुदा राजानं नमाम । राजापितं कुशलोदन्तादि पृष्ट्वा जगौ, भो दत्त ! देशान्तरं भ्रमता त्वया यदि चेत् कुत्रापि किञ्चित् कौतुकं दृष्टं भवेत्, तन्ममाग्रे निवेदय । तत् श्रुत्वा सहर्षों
॥शा