________________
श्रीजैन
श्री मोहजीतचरित्रम्
कथासंग्रहः
॥१३॥
श्रमणपदंनाङ्गीकरोति तस्य शुद्धपरिणामरुपश्रेण्युपरि आरोहणं दुःसाध्यं, तस्मात्कारणात् भो भव्यप्राणिन् ! यथाशक्ति देशवृत्तिसर्ववृत्तिं ( श्रावकवृत्तं साधुवृत्तं ) अङ्गीकृत्य मनुष्यभवं सार्थ कुरु, तस्माद्भवे भवे सुखभाग् भविष्यथ इत्याद्यनेकधोपदेशं दत्त्वा विरराम । आनन्ददायिकां भंवनाशिकामेवंविधां देशनां श्रुत्वा केचन भव्यप्राणिनो पञ्चमहाव्रत्तमङ्गीचक्रुः, भवभीरूमोहजीतराजोऽपि संसारं पाशसदृशं मत्वा शार्दूलनाम्ने स्वपुत्राय राज्यं दत्त्वा । चारित्ररत्नान्न परं हि रत्नम् । चारित्रवित्तान्न परं हि वित्तम् ॥ चारित्र लाभान्न परो हि लाभ । श्चारित्रयोगान्न परो हि योगः॥१॥ इति लक्षणसम्पन्नचारित्रं जग्राह । दीक्षा गृहीता दिनमेकमेव । येनोग्रचित्तेन शिवं स याति ॥ न तदा कदाचित्तदवश्यमेव । वैमानिकः स्यात्रिदशप्रधानः ॥२॥
इति चारित्रमाहात्म्यं ज्ञात्वा क्रमेण गीतार्थीभूत्, तदा गुरोराज्ञां गृहीत्वा ग्रामानुग्रामं विहृत्य भव्यजीवान् प्रतिबोध्य जैनधर्मस्याऽलौकिकं प्रभावं दर्शयित्वाऽन्ते।
तपस्तीवघरट्टोऽयम् । क्षमामर्कटिकःन्वितः॥धृतिहस्तो मन:कीलः। कर्मधान्यानि चूरयेत्॥१॥ ... इति लक्षितस्तपस्तप्त्वा समाधिना पञ्चत्वं प्राप्य सद्गतिमान बभूव।
॥१॥