________________
श्रीजैन कथासंग्रहः
॥१२॥
समुद्रतारकाधुनात्त्वातिश्रमेण दुःखितोऽस्मि, तटे आगमनसामर्थ्यं नाऽस्ति तदा तटीमनुष्यैः अनेकधोपदेशं धैर्य च दत्त्वा पुनरपि कथितमधुनैवागमिष्यसि कश्चिदेव श्रमोऽस्ति तेन प्रयत्नं कुरु प्रयत्नं कुरु, एवं धैर्यालम्बनादिवचनं श्रुत्वा बहुधा श्रमेण तटं प्राप्तः, पश्चात् तौ द्वौ संमील्य तस्मिन्निकटवर्तिनगरे गत्वा सानन्दान्निवसतः । प्रकृते दृष्टान्त इत्थं संघटते -
संसार एव समुद्रे जीवः दुःखेन पीडितो तरणार्थं किञ्चित् मृगयते शुभकर्मोदयेन सम्यक्त्वरूपपट्टफलकं लब्धं, तदा बहिरागत्य तरति तस्मिन्समये मोहरूपवायुलगनात् पुनः संसाररूपसमुद्रेऽपतत्, तेन संसारमध्ये घोरकष्टं सहमान: प्रयत्नात् सम्यक्त्वरूपपट्टफलकेन पुनर्बहिरागत्य तरति तदा केवलज्ञानरूपतटोपरिस्थितः मनुष्यरूपः अरिहन्तदेव एवं कथयति, भो भव्यजीव ! इदं द्वादशव्रतरूपनावमङ्गीकुरु, क्रमेण शृङ्खलारूपसंयमं गृहीत्वा केवलज्ञानरूपतटोपरि आगच्छ, (अर्थाच्चतुर्घातिकर्म विनाश्य केवलज्ञानं ध्रियताम् ), तेन मोक्षरूपनगरे गत्वाऽनन्तसुखभाग् भवाव, स पुरुषोऽपि पूर्वकथितेन महता कष्टेन साधयन् केवलज्ञानरूपतटोपरि आगत्य शेषं कर्मक्षयं कृत्वा अनन्तसुखमयसिद्धिपुरीं प्राप्तः ।
• दृष्टान्तकथनप्रयोजनमिदमेवाऽस्ति यः जीवः घोरदुःखदातारं गृहस्थाश्रमं त्यक्त्वा
श्री मोहजीतचरित्रम्
॥१२॥