________________
श्रीजैन कथासंग्रहः
॥११॥
अर्था पादरजः समा गिरिनदी वेगोपमं यौवनं । मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् ॥ धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं । पश्चत्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥ १ ॥ पुनरस्मादपारसंसारसमुद्रात्पारप्राप्तिरतिकठिनाऽस्ति यावत् पट्टफलकरूपसम्यक्त्वाऽऽधारो न मिलति तावत् तटे प्राप्तिः कठिनाऽस्ति, कदाचित् शुभकर्मोदयेन सम्यक्त्वाऽऽधारं लब्धं पश्चादपि कर्म नानाप्रकारेण भ्रामयति अस्यामवस्थायामात्मन उद्धारः कथं स्यात् । अस्योपरि उत्तमोत्तमदृष्टान्तः प्रोच्यते
1
कस्मिंश्चिदपारसमुद्रे एको मनुष्यो भयभ्रान्तो इतस्ततः भ्रमति, तीरप्राप्त्यर्थं कश्चिद्वस्तु मृगयति, तस्मिन्प्रस्तावे शुभकर्मोदयेनैकं पट्टफलकं लब्धं, तस्य साहाय्येन शनैरस्तरति तस्मिन्समये किं जातं, एक: प्रचण्डवायो: पुनर्जलप्रवेशोऽभवत्, पुनरपि महता कष्टेन पट्टफलकसाहाय्यात् बहिरागत्य तरति तस्मिन्समये तटीमनुष्य एवं कथयति, रे भव्यजीव ! धैर्यमवलम्ब्येमां तवाग्रे चलमानां नाव मारुह्य क्रमेण वहमानः सन् तटे लगमानां शृङ्खलां गृहीत्वा तटे आगच्छ, तदाऽऽवामस्मिन नगरे याव तदैव बहुसुखभाग्भवावइति आनन्दप्रदवचनं श्रुत्वा नावमारुह्य यत्नेन तटे प्राप्त्यर्थं नावं वाहयति, क्रमेण तटसमीपे आगत्य तटीमनुष्येन दर्शितां शृङ्खलां गृहीत्वा तटीमनुष्यं प्रति एवं कथयति, भो
श्री मोहजीतचरित्रम्
॥११॥