SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१०॥ शिखिनश्चकुः स्वरं कोकिलाः ॥ १ ॥ जातिश्चंपकपारिजातकजपा सत्केतकी मल्लीका । पद्मिनीप्रमुखाःक्षणाद्विकसिता प्रापुर्मधूपास्ततः ॥ कुर्वन्तो मधुरस्वरं सुललितं तद्गन्धमाघ्रायते ।। गायन्तो बहुगायनं स्वरपरैः भातीदृशं तद्वनं ॥ २ ॥ एतादृशं आश्चर्यं दृष्ट्वा वनपालकेनागत्यैवं कथितं भो पृथ्वीनाथ ! अद्य तवपुण्योदयेन उद्याने शान्तमुद्राधारकः, भव्यात्मतारकः, विशालबुद्धेर्धारकः, चन्द्रवत्सौम्यः, सूर्यवत् तेजस्वी, सागरवत् गंभीरः, अनेकमुनिगणयुक्तः ज्ञानी गुरुरागतः, एतत्श्रुत्वा रोमाञ्चकञ्चुकितशरीरो द्विगुणीभूतगात्रभूषणः राजचिह्नं त्यक्त्वा सर्ववस्त्राऽऽभूषणानि वनपालायाऽदात् । पञ्चादानन्दभेरीरवपरिपूरितदिगन्तरालचतुरङ्गबलेन गुरोर्वन्दनार्थं चचाल, क्रमेण तत्र गत्वा यथाविध वन्दनां विधाय यथोचितस्थाने उपविष्टः पश्चादेवं गुरो स्तुतिं चकार । हे भगवन्ं ! अथाहो भाग्यं ममाऽभवत्, भवादृशः गुरोर्दर्शनं जातं, पुन अद्य त्रैलोक्यतिलक ! प्रतिभाति पुनरयं संसार समुद्रः चुलुकप्रमाणः प्रतिभासते, इत्याद्यनेकधा स्तुतिं विधाय विरराम । • शुभावसरं ज्ञात्वाचार्यो धर्मोपदेशं ददाति । भो भव्यप्राणिन् इदं मनुष्यभवं दशभिर्दृष्टान्तैर्दुर्लभमस्ति, कदाचिद् पुण्योदयेन मनुष्यजन्म प्राप्य प्रमादनिद्राकषायादिवशेन समुद्रे पातयति स इह परत्र चातिदुःखभोक्ता भवति, यतः - श्री मोहजीतचरित्रम् ॥१०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy