SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 86 श्री मोहजीतचरित्रम् श्रीजेन कथासंग्रहः ॥८॥ कुटिलस्वभावो न त्यक्तः, गुणिता रज्जुः अग्नीमध्ये क्षिप्तापि गुणितत्स्वभावं न त्यजति, अस्तु तेनैव प्रकारेण तव स्वभावोऽस्ति रे दुष्ट ! त्वं अतिबृहदृषिभिरपि न त्यक्तः, किन्तु मय्यत्र तव सदृशदुष्टस्यागमनस्थानमेव नाऽस्ति एवं विचारयित्वा योगिनं सरलस्वभावेनोत्तरं ददाति। योगो न साध्यो ममता न रिक्ता। इतस्ततः किं भ्रमणङ्करोषि ॥ तपो मलिनो भवतश्च जातम् । तस्यैव दुःखं मम नाऽस्ति चान्यत् ॥ ८॥ एवं कथनानन्तरं पुनरपि शिक्षावचनं कथयति भो योगीश्वर यदा भवता योगो गृहीतः, तर्हि किं निरर्थकं मोहनीय कर्मवशादितस्ततोः भ्रमणं करोषि ? पुनश्च श्रूयतां यद्यपि व्यवहारात् मम पुत्रोऽभूत् तथापि मम तस्य मरणे कोऽपि शोको नास्ति, यतः- यस्मिन्देशे यदा काले। यन्मुहूर्ते च यद्दिने । हानिर्वृद्धिर्यशो लाभो। यत्तथा तन्न चान्यथा॥१॥पुनरस्मिन् जगति प्रतिदिनं केऽप्युत्पद्यन्ते केऽपि नियन्ते एवमनित्यसंसारोऽस्ति, परन्त्वेवं ज्ञायते भवता योग: पूर्णतया न साधितः, इत्यादि शिक्षावचनं कथयित्वा विरराम । ईदृग् वचः श्रुत्वा इमामवस्थां च दृष्ट्वा विचारयति हाहा मया किं चिन्तितं किं जातं मदवस्था कमलकोशगतभ्रमरस्य, यथा :- रात्रिर्गमिष्यति भविष्यति सुप्रभातं। भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ॥ एवं विचिन्तयति कोषगते द्विरेफे ॥ हा हंत हन्त नलिनी गज उजहार ॥१॥ इति अवस्था जाता तथा बभूव मया तु विचारितन्न २ कीट: किं न चलिष्यति किन्तु
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy