________________
ॐ श्री मोहजीतचरित्रम्
संभवति दास्य खलु कुत्रजाताः? कस्मात्स्थानादागता, एवंविधा दास्यः कदापि मोहन जयन्ति किन्तु स्वाचिन्यो दास्यः सन्ति, पर शार्दुलस्य मातुः पावें गच्छामि मातुः पुत्रोपर्यतीव मोहं करिष्यति, तेन तत्र गत्वा कथयामि, क्रमेण स योगी तस्य माता यस्मिन् गवाक्षे स्वितास्ति तस्य नीचैर्गत्वैवमुवाच । दुःखस्य वार्ताहवयामि मातः। सुतोहतस्ते हरिणामहाऽऽयः॥ भोज्यन्त्र भुक्त्वा करुणापरोऽहम् समागतः कारणमस्ति नान्यत् ॥३॥ तस्य मातोत्तरन्ददाति, जाता जना ये मरणं गतास्ते, जातस्य मृत्यु अ॒क्तामुपेतः । रक्षन्ति के कं भवतो हि भावी, त्यक्त्वा तपः किं प्रमणं करोपि॥४॥नीतावप्युक्तम्बत:-पातालमाविशतुवातु सुरेन्द्रलोके, आरोहतु क्षितिधराधिपतिं च मेहम् । मन्त्रौषधप्रहरण करोतु रक्षाम, यदावि तद्भवति नाऽऽत्र विचारहेतुः॥१॥
एवं श्रुत्वा कृत्वा पुनश्चिन्तयति किं जातं पूर्वन्त्वहं दास्यः स्वार्थाः ज्ञात्वाऽत्राऽऽगतः, किन्तु मात्राऽपि मोहो न कृतो, मन्येऽहं तावत्पर्यन्तं मोहो विद्यते मातुर्थावत् स स्तनपानं करोति पश्चात् कस्य माता कस्य पुत्रः ? अधुना किं जातं तस्य पीपा गमिच्यामि, सा त्ववश्यमेव भतुरुपरि मोहं। करिष्यति भतुरेवाधारो यत इति ध्यात्वा तस्य बिया इय॑स्य नीचैर्गत्वा एवमुवाच । लावण्ययुक्ते. बहुसौख्यकारी, रतेः समाने गुणयुक्तनारी। वदामि भर्ता तव नात्र शहा, शार्दूलनाम्ना हरिणा हतो बत्॥
॥६॥