________________
श्री मोहजीतचरित्रम्
श्रीजैन कथासंग्रहः
॥५॥
रिपुःस्याद्यःकंटको वा निजमण्डलस्य। अस्त्राणि तत्रैव नृपाःक्षिपन्ति न दीनकानां न शुभाशयेषु॥१॥ • इति विदित्वा तं जेतुं जिगमिषयति तस्मिन्नेव समये देवेन प्रेरितो राजपुत्र एवमवादीत् भो तात ! सिंहजयार्थ अहं गच्छामि, भवता त्रैव स्थीयतां, अहमेक एव जेष्यामि एवं कथयित्वा पितुराज्ञामादाय काञ्चिच्चमूं गृहीत्वा पुर्या बहिरागत्य कुन्ततोमरादि शस्त्रैः सिंहशरीरमाबाधयामास, सिंहोऽपि राजपुत्रमतिनिकटमागतं दृष्ट्वा (तत्स्थानात्) पलायितस्तदा राजपुत्रोऽपि तत्पृष्ठे तुरङ्ग प्रेरयति स्म, . तस्याश्ववेगेन सर्व सैनिका बह्वन्तरा जातास्ततो राजपुत्राऽदर्शनादन्यमार्गे विलग्ना, राजपुत्रस्तु सिंहपृष्ठे लनः सन् अतिभयङ्करे वने प्रविष्टः, तदा सिंहस्तु लुप्तोऽभूत, पश्चाद्योगिवेशं कृत्वा स्वासनोपरि राजपुत्रं मृतवत्कृत्वाऽस्थापयदनन्तरं यत्र राजदास्यो जलमानेतुमागच्छन्ति, तस्या अलकापुरीबाह्याऽऽरामवापिकाया ३ परिस्थित्वा विचारयति राजश्चेटिका आगमिष्यन्ति तदैवं कथयिष्यामि ततश्चेटिकाः समागता योगी उवाच। विचित्रवार्ताकथयामि चेट्यः । शृण्वन्तु विज्ञापनमस्ति भद्राः॥राज्ञःसुतोऽसौ हरिणा हतस्तत् । कायं वने क्षिप्तमहं तु खिन्नः॥१॥ एवं श्रुत्वा दास्यो वदन्ति, वयन कस्यापि न दासताङ्कताः । स्वामी न कोप्यस्ति मनुष्यलोके ॥ जलस्य योगात्प्रचलन्ति पोताः । संसारवहः खलु तादृगेषुः ॥२॥ एवं श्रुत्वा योगी चिन्तयति, किं दास्योऽपि मोहजितः, किन्त्वेवं न
॥५॥