________________
श्रीजैन कथासंग्रहः
36 श्री मोहजीतंचरित्रम्
॥४॥
मोहं जित्वा धर्मध्यानेन लीनः सन् सुखेन प्रजां पालयति स्म।
एकदा कस्मिंश्चित् प्रस्तावे इन्द्रः देवसभायां कथयति स्म, मनुष्यलोके ऽलकापुर्यधीशमोहजीतनाम्ना राजा स्वजनपुरजन सहितेनैवंविधमोहजितः देवैरपि चाल्यमानो न चलति, धन्यः सः य अष्टकर्मणां मध्ये प्रधानं मोहं जित्वा मनुष्यजन्म सफलीकृतवान्, एवमनेकधा प्रशंसा कृत्वा विरराम । तदा तस्मिन्नेव सभायामेकमिथ्यात्विदेवस्तच्छ्रुत्वाऽनङ्गीकुर्वाणःसनुत्थितः पश्चादेवं कथयामास- भो स्वामिन्नरकीटकस्य प्रशंसा कथं क्रियते ? किं देवैरपि चाल्यमानो न चलति ? अहं तत्र गत्वा चालयामि, सोऽहंकृति कृत्वा देवलोकाच्चचाल. क्षणमात्रेण मनुष्यलोकेऽलकापुरीसमीपमागत्य परीक्षाकरणाय सिंहरूपं कृत्वा घनगर्जिततुल्यातिभययुक्तसिंहनादं कृतवान्, तस्य गर्जनां श्रुत्वा पशवस्तु हतधियोऽग्रेपदमपि धर्तुन शक्नुवन्ति स्म, तथा बहिस्था मनुष्याऽपि भयभीताः प्राणरक्षार्थमितस्तत: धावन्ति स्म, एकमनुष्येणागत्य पुरजनरक्षार्थनगरीप्रतोलीकपाटौ दत्तौ पश्चात्तेनैव पुरुषेण राजसभायां गत्वा राजा विज्ञापितः भो स्वामिन्नगरीबहिः सिंह आगत: अनेक जीवानां वधं करिष्यति, यथा जीववधो न स्यात् तथा क्रियतां, इति श्रुत्वा राजा विचारयति, अहो ! प्रजाकंटकस्य जीववधकारकं रणे जित्वा प्रजादुःखं दुरीकरोमि, नीतावपि कथितमस्ति यतः- सशस्त्रवृत्तिःसमरे
॥४॥