________________
० श्री मोहजीतचरित्रम्
कथासंग्रहः
॥३॥
एवं काले गच्छति तयोवृद्धावस्थायामेकः पुत्रोऽभूत् । तदा स्वज्ञाती: संतोष्य तस्य शार्दूल इति नाम विहितम् । पञ्चधातृभिः लाल्यमानो पञ्चवार्षिको जातः । तदाऽत्युत्सवेन कलाचार्यपाधै कलाशिक्षणार्थ प्रेषितः । सोऽपि प्रमादांस्त्यजन् सन्नल्पसमयेनैव द्वासप्तति-कलापारगामी जातः । पश्चात् शान्तो दान्तः शूरवीरः पराक्रमी क्रमेण यौवनावस्थायां प्राप्तः। पुनः, अतिमनोहरा चन्द्रवदना जैन - शासनप्रभाविका जीवाजीवादिनवपदार्थेषु निपुणा चतुःषष्टिकलायुक्ता मोहविनाशिकानाम्नी यादत्तवीर्यस्य पुत्री तया साधं पाणिग्रहणं चकार ॥ एकदाटकर्मणां विचारसमये मोहनीयकर्मप्राबल्यं दृष्ट्वा विचारयति स्म । अहो तस्य उत्कृष्ट सप्तति कोटाकोटीसागरोपमा स्थितिरस्ति पुनर्विवान्महन्मोहनीयकर्मास्ति, विषन्तु केवलमस्मिन्नेव भवे दुःखदायि भवति तदप्योषध्यायुपचारेभ्यः दुरीभवति किन्तु मोहनीयकर्म तु भवे २ दुःखदायि स्यात् हे आत्मन् ! तल्लक्षणं ध्यानपूर्वकं श्रृणु।।
- स्नेहमूलानि दुःखानि यदा त्वं चतुर्थ्यानानाम्मध्ये प्रथमध्यानस्य प्रथमपादे विचारं करोषि तदा ज्ञायते इष्टवियोगआर्तव्यानं तर्हि इदं ध्यानं तिर्यग्गतिं ददाति, तदिदं महद्दष्टकर्म अजेयम्, पुनर्स्थानाङ्गसूत्रस्याष्टमस्थाने दुर्लभताविजयनामाष्टकमध्ये पूर्वमेव कथितमस्ति, (अष्टकर्मणां मध्ये महादुष्टमोहनीयकर्मणोऽजयोऽस्ति ( कठिनोऽस्ति), इत्याद्यनेकधा विचारं कृत्वा स्वजनपुरजनसहितः