SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्री मोहजीतचरित्रम् कथासंग्रहः ॥२॥ अस्ति काचिजम्बुद्वीपे भरतक्षेत्रे कम्बुदेशे, अलकापुरी नाम नगरी । यस्या बहिः सघनतरूणामनेकफलपुष्पारामा अत्युनततोरणपताकादियुक्तजिनमन्दिराणि च विराजन्ते । देववान्छितस्वजन्मकासा अनेकविद्यादिसद्गुणाबश्रावको - पेताऽऽसीत् ॥ तन्नगर्यधीश: सकलकलाप्रौढोग्नेकराजमण्डलीमण्डित: समस्तराजनीतिसमन्वितः महासम्यग्दृष्टिः परमधार्मिकः पुनः पंचगुणयुक्तः। पाने त्यागी गुणे रागी भोगी परिजनैः सह । शास्त्रे बोद्धारणे योद्धा पुरुषः पञ्चलक्षणः॥ १॥ इत्यादिनीतिशास्त्रोक्तगुणालकृतः मोहजीतराजा राज्यं करोति स्म । तस्य पट्टराज्ञी शीलालंकारविभूषिता सुरूपा चन्द्रवदना मनोज्ञा चतुःषष्टि कलापारगामिनी सम्यक्त्वादिगुणसंपन्ना पुनः । अनुकूला सदा तुष्टा दक्षासाम्वीविचक्षणा। एभिरेवगुणैर्युक्ता श्रीरिव स्त्री न संशयः॥१॥ इति सल्लक्षणसंपन्ना मोहम्वान्तविनाशिका नाम्नी राज्ञी बभूव । तौ दम्पती देवार्चनगुरुसेवनादिसत्कृत्येषु लीनी स्वकालं निन्य तुः । ताभ्यामेव भूर्भूषिता गरायते स्म यतः। देवान् पूजयतो दयां विदधतः सत्यं वचो जल्पतः। सद्धिः संगमनुज्झतो वितरतो दानं मदं. मुखतः॥ यस्येत्वं पुरुषस्य यान्ति दिवसा: तस्येव मन्यामहे । श्लाघ्यं जन्म च जीवितं च सफलं तेनैव भूर्भूषिता॥१॥ ॥२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy